SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ ६२० कातन्त्रव्याकरणम् स्वरिष्यतीति परत्वाद् विकल्पो न स्यात्, व्यवहितवावचनात्, तथा स्वसूडोश्च कानुबन्धे नित्यं स्यात्- स्वृत्वा, सूत्वेति। अपतिनिष्कुषोरिति प्रतिषेधात् निष्कुषेवेंडस्तीति गम्यते। असार्वधातुकस्य व्यञ्जनादेरयकारादेरिति- निष्कोष्टा, निष्कोषिता।।१३६८। [दु० टी०] स्वरति०। सूतेरसार्वधातुकमेव ज्ञेयम्, अन्येषां साहचर्यात्। 'स्वृ शब्दे' (१।२७१), तिग्निर्देश इह श्रुतिसखार्थः। 'घूङ् प्राणिगर्भविमोचने'(२।५४) आदादिकः, 'घूङ् प्राणिप्रसवे' (३।८१) देवादिकः, 'घूङ् प्रेरणे' (५।१८) तौदादिकः। यद्येवं घूङ् आस्ताम्, अङानुबन्धत्वादेव सुवतेर्निवृत्तिः? सत्यम्. यथा स्वरतेस्तिबनिर्देशः सखार्थस्तथानयोरपीति। अन्यस्तु 'लुगविकरणालुगविकरणयोलुविकरणस्यैव ग्रहणम्' (व्या०-परि०४३) इति ज्ञापनार्थं तिप्करणमत्राङ्गीकृतम् धुनोते: “उतोऽयुरुनुस्नुक्षुक्ष्णुवः" (३।७।१५) इति इट्प्रतिषेधः, इतरेषां प्राप्तौ विभाषेयम्। स्वरिष्यतीति। अथवा 'येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधकः' (व्या०परि०४२) इति “ऋतोऽवृञः '' (३।७।१६) इति योगं बाधते व "हनृदन्तात् स्ये" (३।७।७) इति। तथा "न युवर्णवृतां कानुबन्धे' (४।६।७९) इति 'पूर्वपरयोः परविधिर्बलवान्' (कलाप०-पृ० २२८) इति परस्येष्टवाचित्वाद् वा।।१३६८। [वि०प०] विरति०। 'घूङ् प्राणिगर्भविमोचने' (२।५४) इत्यदादौ 'घूङ् प्राणिप्रसवे' (३।८१) इति दिवादौ ‘सोता, सविता' द्वयोरेव इदमुदाहरणमभेदेन दर्शितम्। न च लुविकरणस्य सूतेरनन्तरं सार्वधातुकमिति, तस्याप्यादिरिट् स्यादिति वाच्यम्, स्वरत्यादिभि: साहचर्यात्। सुवतेरिति। 'षु प्रेरणे' (५।१८) तौदादिकादित्यर्थः। धूजी विकल्प: कर्तव्यो नेत्याह- विधौतेति। धुनोते: “उतोऽयुरुनुस्नुक्षुक्ष्णुव:' (३।७।१५) इति इट्प्रतिषेधोऽस्ति। धुनातेस्तु दीर्घान्तत्वादिडस्तीति विकल्पः सिद्धः, न चार्थभेदोऽस्ति, द्वयोरपि कम्पनार्थत्वात्। स्वरिष्यतीत्यादौ "हनृदन्तात् स्ये" (३।७।७) इति नित्यमिडित्यर्थः। तथेति। "ऋतोऽवृवृत्रः, न ,युवर्णवृतां कानुबन्थे" (३।७।१६,४।६।७९) इत्यनयोः कानुबन्धे नित्यं प्रतिषेधः, न तु परत्वादनेन विकल्प इति भावः। अपतीत्यादि। अन्यथा पते: “इवन्तर्द्ध" (३।७।३३) इत्यादिना वेट्त्वात् प्रतिषेधो युज्यते। निष्कुषेस्तु वेट्त्वाभावात् प्राप्त्यभावे "न डीश्वी०" (४।६।९०) इत्यादावनर्थकः प्रतिषेध इति।।१३६८। [क० त०] स्वरति०। स्वृ सूङिति कृते सिध्यति तिनिर्देशः स्पष्टार्थः। साहचर्यादिति। अथवा टानुबन्धलिङ्गादेवासार्वधातुकमिति लभ्यते, कुतः सार्वधातुके स्यादिति शङ्का। टीकायामथवेति। अथ "हनृदन्तात् स्ये' (३।७।७) इत्यपि बोध्यम्, तत्राहपूर्वपरयोरिति।।१३६८।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy