SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः ६१५ [वि०प०] न ,युवर्ण०। शेश्रियित इति। श्रिो लूजश्च चेक्रीयितं द्विवचनादौ कृते चेक्रीयितस्य लुकि सति अनेकस्वरत्वान्निष्ठायामिट्। तत इयुवौ। अयं पुनर्मन्यते चेक्रीयितलुगन्तस्य भाषायामप्रयोगात् किम् “अर्तीणघसैकस्वराताम्" (४।६।७६) इत्यादावेकविभक्तियुक्तस्यैकस्वरमात्रस्यानुवर्तनेनेति।।१३६४। [क० त०] न०। ऋतः सौत्रस्य नाशङ्का। तृषिमृषीत्यादिना सेट क्त्वि सेटि गुणाभिधानात्, व्याप्तिन्यायाद् वा। नन् 'आगमादेशयोरागमो विधिर्बलवान्' (का० परि०४०) इति न्यायात् प्रागिटः प्रसक्तौ निषेधोऽयम्। ततश्चाविकृते कथं स्याद् इत्याहवचनादित्यादि। श्रयत्यादीनां सम्बन्धी यः कानुबन्धस्तस्मिन् विषये श्रुतत्वात् श्रयत्यादिभ्य इड़ न भवतीति व्याख्यानादेवेत्यर्थः। अथ वचनाद् इत्यस्य आत: प्रतिषेधवचनादित्यर्थः कथं नोच्यते, नैवम्। वचनादिरादेशस्य पाक्षिकी वृत्तिः स्यादित्यस्यापि सुवचत्वात् सर्वथा इटोऽभावे प्रमाणाभावात्। न स्यादिति। इट् न स्यादित्यर्थः। स्यादिति पाठे प्रतिषेधः स्यादित्यर्थः। शेश्रियित इत्यादि। अथ "प्रत्ययत्नुकां चानाम्'' (४।१।४) इत्यनेन इयादेशस्य निषेधः कथन स्यात्? सत्यम्, 'सर्वविधिभ्यो लोपविधिर्बलवान्' (का० परि० ४४) इति न्यायात् प्रागेव चेक्रीयितलोपः, ततश्च इटीयादेशादिः, अतो यस्मिन् धात्वेकदेशो लुप्तस्तस्मिन्त्रेव प्रत्यये प्रतिषेधस्योक्तत्वात् कथमत्र प्रतिषेधप्राप्तिः स्यादिति।।१३६४। [समीक्षा] 'श्रितः, वृतवान्, लून:, श्रित्वा' इत्यादि प्रयोगों के सिद्ध्यर्थ पाणिनि तथा शर्ववर्मा दोनों ने ही इडागम का निषेध किया है। पाणिनि का सूत्र है- "युक: किति'' (अ०७।२।११)। अत: उभयत्र समानता ही है। [विशेष वचन] १. 'शेश्रियित:, लोलुवित:' इति सिद्ध्यर्थमेकस्वरमनुवर्तयन्त्येके (दु०वृ०)। २. नैतत् सूत्रकारमतम्, भाषायां चेक्रीयितलुगन्तस्याप्रयोगात् (दु०टी०।द्र०वि०प०)। [रूपसिद्धि] १-३. श्रितः, श्रितवान्, श्रित्वा। श्रि-क्त, क्तवन्तु, क्त्वा+सि। “श्रिञ् सेवायाम्' (१।६०४) धातु से क्त-क्तवन्तु-क्त्वा प्रत्यय, ‘क्-उ' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से इडागम का निषेध तथा विभक्तिकार्य।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy