________________
६१६
कातन्त्रव्याकरणम् ४-१८. युतः, युतवान्, युत्वा। यु-क्त, क्तवन्तु. क्त्वा-मि। रुतः, रुतवान्, रुत्वा। रु-क्त, क्तवन्तु. क्त्वा-सि। लूनः, लूनवान्, लूत्वा। लूक्त. क्तवन्तु. क्त्वा-सि। वृतः, वृतिवान्, वृत्वा। वृङ्-वृञ्-क्त. क्तवन्त, क्त्वा-सि। कीर्णः, कीर्णवान्, कीर्वा। कृ-क्त, क्तवन्तु, क्त्वा-सि। प्रक्रिया पूर्ववत्।।१३६४।
१३६५. घोषवत्त्योश्च कृति [४।६।८०] [सूत्रार्थ
कृत्सज्ञक घोषसंज्ञक वर्ण (घोषवदादि कृत्प्रत्यय) तथा 'ति' प्रत्यय के परे रहते इडागम का निषेध होता है।।१३६५।
[दु० वृ०]
घोषवति तौ च कृत्यसञके नेड् भवति। ईश्वरः, दीप्रः, शर्मा, दीप्ति:, जागतिः, बुद्धिः। तिक् च-तन्तिः, सन्तिः। कथं निगृहीति:, निपठितिः, निकुचितिः. उपस्निहिति:, आलोचिति:? मण्डूकप्लुतिवाधिकागद् ग्रहादेरिड् भवति। अपचितिरिति पूजायां निष्कृतौ चेष्यते। कथं शस्त्रम्? आगमस्यानित्यत्वात्। पत्रमिति। "युग्यं पत्रे' (३।१।१२१) इति निर्देशात्।। १३६५।
[दु० टी०]
घोषः। कृदवयवोऽपि घोषवान् वर्णः कृदुच्यते उपचारात्। वर्णग्रहणे तदादावित्येक इति न्यायः पन: कृविषयो घोषवान् कृत्संज्ञकश्च तिरिति एकापि सप्तमी अर्थवशाद् भिद्यते। अत एव कृतीत्येकवचनम, तेन रुदिवः, रोदितीति सिद्धम्। कथमित्यादि। तेन ग्रहादेरित्यपि वक्तव्यम्। सङ्ग्रहमाह- मण्डूक इत्यादि। चायतेश्चिभावः क्तो वक्तव्यो नेत्याह- अपपूर्वाच्चिनोतेर्भविष्यति। अपपूर्वश्चिनोतिरपचये पूजायां निष्कृतो चानेकार्थत्वाद् धातूनां प्रकरणाद् विशिष्टोऽर्थ इति। चायतेस्तु क्तो नाभिधानम्, नहि चातिरिति प्रयोगो दृश्यते। शस्त्रमित्यादि। अभिधानलक्षणा हि कृत्तद्धितसमासा इति।।१३६५।
[वि०प०]
घोष०। जागर्तिरिति। ‘जागुः कृत्यशन्तृढ्यो:' (४।१।८) इति . यण्वद्भावात्' "यणाशिषोर्ये' (३।६।१३) इति गुणः। तिक् चेति। "तिक्कृतौ सज्ञायामाशिषि'' (३।५।११२) इति तिक्। न केवलं स्त्रियां क्तिरित्ययमपीत्यर्थः। चायतेश्चिभाव: क्तो न वक्तव्यः इत्याह- अपचितिरिति। अनेकार्थत्वाद् धातूनाम् अपपूर्वश्चिनोतिरपचये पूजायां निष्कृतौ च वर्तते, चायतेस्तु क्तौ अपचातिरिति नाभिधीयते। कथमित्यादि। शस्यतेऽनेनेति, पद्यतेऽनेनेति विग्रहे "नीदाप्शसुयुयुज०" (४।४।६१) इत्यादिना ष्ट्रन्।।१३६५