________________
६१२
कातन्त्रव्याकरणम्
ततश्चाादिग्रहणं विध्यर्थमेव स्यान्न ज्ञापकार्थमिति। अत्र समाधत्ते-सत्यमित्यादि। एतेनैकग्रहणस्य मूलधातुषु व्यावृत्तेः सम्भवाद् ज्ञापकं न युक्तम्, किन्तु अादीनामेव ज्ञापकं युक्तमिति प्रतिपादितम्। स्वमतदाार्थं दर्शयति- श्रुतपाल इति। पाणिनिप्रक्रियायाः अणः संज्ञा णकारो वृद्ध्यर्थमकारः सुखार्थः। ओकारसामर्थ्यादित्ययं भावः। “दरिद्रातेरसार्वधातुके" (३।६।३४) इत्यत्राकारलोप औकारेण सस्वरत्वे सत्योकारस्य प्रयोजनम्। अन्यथा ओकारविधानेऽपि पपाविति सिध्यति। तस्माद् दरिद्रातेराम् नास्तीति। प्रश्लिष्टेति। प्रशब्दोऽत्र संश्लेषो विश्लिष्टश्चेति दरिद्रातराकारलोपे पूर्वभावाद् विश्लिष्टता। अवर्णस्थ इति पाठे तत्सम्बन्धी न विहित इत्यर्थः। प्रयत्नेति। यदुपादानमुच्चारणं तेनानयोपरतिर्विच्छेदस्तद्भेदादित्यर्थ:]।१३६१।
[समीक्षा
'आरिवान्, पेचिवान्, पपिवान्' इत्यादि शब्दरूपों में दोनों ही व्याकरणों में इडागम किया गया है। अन्तर यह है कि 'ऋ' आदि तीन धातुओं से पाणिनि ने थल प्रत्यय के परे रहते ही इडागम किया है, जब कि कातन्त्रकार 'वन्सु' प्रत्यय के परे रहते इडागम करते हैं। पाणिनि के दो सूत्र हैं- “इडत्यर्त्तिव्ययतीनाम्, वस्वेकाजाद्घसाम्' (अ० ७।२।६६,६७)। सामान्यतया उभयत्र समानता ही कही जा सकती है।
रूपसिद्धि
१-८. आरिवान्। ऋक्वन्सु+सि। ईयिवान्। इण्+क्वन्सु+सि। जक्षिवान्। घस् क्वन्सु+सि। आदिवान्। अद्+क्वन्सु+सि। पेचिवान्। पच्+क्वन्सु+सि। ददिवान्। दाक्वन्स+सि। पपिवान्। पा+क्वन्स+सि। दरिद्राञ्चकवान्। दरिद्रा+आम्+क+क्वन्स-सि। 'ऋ' आदि धातुओं से 'क्वन्सु' प्रत्यय, द्विर्वचनादि, इडागम तथा विभक्तिकार्य।।१३६१॥
१३६२. गमहनविदविशदृशां वा [४।६।७७] [सूत्रार्थ 'गम्-हन्-विद्-विश्-दृश्' धातुओं से वैकल्पिक इडागम होता है।।१३६२। [दु०वृ०]
अप्राप्ते विभाषेयम्। एषां वन्साविड् भवति वा। जग्मिवान्-जयन्वान्। जघ्निवान्जघन्वान्। विविदिवान्-विविद्वान्। बहुभिः सविकरणैः साहचर्याल्लाभार्थस्य विदेर्ग्रहणम्। विविशिवान्-विविश्वान्। ददृशिवान्-ददृश्वान्।।१३६२।
[दु० टी०]
गम०। सत्ताविचारार्थयोरात्मनेपदित्वाद् वन्सुरेव नास्ति तत्र लाभज्ञानार्थयोर्मध्ये लाभार्थस्यैव ग्रहणमित्याह-बहुभिरिति। न पुनटुंग्विकरणेनैव ज्ञानार्थस्य ग्रहणं युक्तमित्यर्थः।।१३६२।