SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः ६११ कृति' (४।६।८०) इति विधास्यमानत्वात्। प्रतिप्रसूयते इति तदा जग्मिमेति विशेषः। अत्रायं क्रमेण साध्यः। इडागम इत्यादिना प्राप्त: अनिडेक इत्यादिना "घोषवत्योश्च कृति' (४।६।८०) इत्यनेन च निषिद्धः पुनरादिनियमात् प्राप्तोऽर्त्यादिभ्योऽनेन नियम्यते इति, यदि पुनरिति प्रागेवोक्तोऽस्य क्रमस्तदा नियमपक्षे "घोषवत्योश्च कृति'' (४।६।८०) इत्यत्र कृद्ग्रहणं किमर्थं यतः कृद्ग्रहणस्याख्यातिके घोषवति व्यावृत्तिराख्यातिकपरोक्षायामेव, ततः स्रादिनियमे चेत्याह- घोषवत्योश्च कृतीत्यत्रेत्यादि। अबाधितत्वादिति सार्वधातुक इवि विशेषः। विधिपक्ष इति। अत्र हि नियमेऽपि घोषवत्योश्च कृतीति प्रतिषेधः स्यादिति कृद्ग्रहणम्। अन्यथा रुरुदिवेति न स्रादिनियमव्यावृत्तेस्तु थलि सेटि प्रत्यये च परे इति। परोक्षायां चेति। चकारेण रुरुदिवेत्यपि फलमिति सूच्यते। अयमत्र सङ्कलितार्थ:- यदायं योगो नियमार्थस्तदा घोषवत्योश्च कृतीत्यस्य विषयेऽपि स्रादिनियम: प्रवर्तते। अत एव परोक्षावद् भूते वन्साविति सिद्धेऽयमपि नियमः, किन्तु घोषवत्योश्च कृतीत्यत्र कृद्ग्रहणं विना सामान्यघोषवति तौ च प्रतिषेधः स्यात्, तत्र स्रादिनियमात् परोक्षाविषयकघोषवतीट् स्यात्। सार्वधातुकविषयकघोषवति तौ च प्रतिषेधो न स्यादिति कृद्ग्रहणम्, सार्वधातुके इत्थं यदा पुनरयं विधिस्तदा घोषवत्योश्च कृतीत्यस्य विषये स्रादिनियमो न प्रवर्तते। अत एव परोक्षावद् भूते वन्सुप्रत्यये इटोऽप्राप्तावयं विधि?षवत्योश्च कृतीत्यत्र कृद्ग्रहणं विना परोक्षाविषयकघोषवत्यपि इटि न स्यादिति स्रादिनियमाविषयत्वादिति परोक्षार्थं च कृद्ग्रहणम्। सप्तमीनिर्देशादिति। विधौ वन्साविति सप्तमीनिर्देशः। व्यावृत्त्यादेनिमित्तत्वेन सम्बन्धार्थम्, अन्यथा वन्साविति कृते न स्यादिति भावः। अथ परत्वाद् द्विर्वचनात् प्रागिट् स्यात्, कथं द्विवचने सत्येकस्वरो गृहीत इत्याहपरादपीति। ___ अथ चकास्प्रभृतयोऽनेकस्वरा सन्ति, नैवम्। तत्रामेवास्ति इत्याहचकासादीनामिति। अत: इड्वन्साविति कृतेऽप्येकस्वरप्राप्तावेकस्वरग्रहणं द्विवचने सत्येकस्वरत्वं भविष्यतीति भावः। कथमादिंग्रहणं ज्ञापयति उक्तयुक्त्या एकस्वरग्रहणादेव द्विर्वचने सति एकस्वरप्राप्तावादीनां द्विर्वचनेऽनेकस्वरत्वान स्यादिति। अप्राप्तौ विधानार्थमेव स्यान्न ज्ञापकमिति भावः। समाधत्ते एकस्वरसम्बन्धिनीति तदेति जाग्रूणुभ्यामनेकस्वराभ्यां व्यावृत्तेः सम्भवान्मूलधातुरेवैकस्वरो ग्राह्य इत्यादीनामपि सिध्यतीति भावः। तथैव पूर्वपक्षयति-तीत्यादि। अयमभिप्रायः- यदि मूलधातोरेकस्वरो ग्राह्यस्तदा जाणुभ्यामेव व्यावृत्तेः सम्भवस्तदा जाग्रूर्णभ्यामिति निषेध एव क्रियताम्, इड्वन्साविति सूत्रमास्ताम् एकस्वरग्रहणमपि न कार्यमिति, तस्मादेकस्वरग्रहणं द्विवचने सति एकस्वरार्थं भविष्यति। मूलधातोरेकस्वरत्वभावेन व्यावृत्त्यभावात् जाग्रूणुभ्यां चेति निषेध एवास्ति।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy