SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ६१० कातन्त्रव्याकरणम् "" जक्षिवानिति। अदेर्वा परोक्षायामिति घस्तुरादेशः द्विर्वचनम्, इटि कृते गमहनेत्यादिनोपधालोपे, "अघोषेष्वशिटां प्रथमः ' (३२८/९ ) इति घस्य कत्वम् “शासिवसिघसीनां च” (३।८।२७) इति पचम्। एकस्वरमुदाहरति — आदिवान्, पेचिवानिति । अदेः पचे: क्वन्तौ द्विर्वचनं सति एकत्र "अस्थादेः सर्वत्र" (३।३।१८) इति दीर्घः, परलोपः । अन्यत्र "अस्यैकव्यञ्जनमध्ये (३/४/५१ ) इत्यादिना एत्वे अभ्यासलोपे चैकस्वरत्वात् पश्चादि। आदन्तमुदाहरति- ददिवान्, पपिवानिति। द्विर्वचने कृतेऽनेकस्वरत्वादिटि सति "आलोपोऽसार्वधातुके" (३।४।२७) इत्याकारलोपः। दरिद्रातेः कन्न स्यादिति? नैवम् चकास्ग्रहणमनेकस्वरोपलक्षणम् इत्युक्तम्, अतोऽस्य आमप्रत्ययो व्यवधायक इत्याह — दरिद्राञ्चकृवान् इति। आमि “दरिद्रातेरसार्वधातुके” (३/६/३४) इत्याकारलाप:, आमः कृञनुप्रयोगः । अर्त्यादीति । आदिग्रहणेनेण्घसादन्ताः कथ्यन्ते । यदि पुनः प्रागेव द्विर्वचनादेकस्वरा गृह्यन्ते तदा अर्तीण्घसातां ग्रहणमनर्थकं स्यात् एषामप्येकस्वरत्वादेव सिद्धेति । यद्येवम् अर्त्तिघसादन्तानां द्विर्वचने सत्यनेकस्वरत्वादि न स्यादिति युक्तमेषां ग्रहणम् । इणन्तु द्विर्वचनेऽभ्यासदीर्घत्वे निरपवादे च दीर्घात् परोपे सत्येकस्वरत्वादिट् सिद्ध्यत्याह— नैकत्वं वचनादिण इति । एकस्वरत्वं न ग्रहीतव्यम्, वचनादिण उपादानाद् अतः प्राप्तोऽपि परलोपो न भवति । यदि पुनरिह परलोपः स्यात् तदेटि सनि इणश्चेति यत्वेऽनिष्टरूपं स्यादिति । बभज्वान्, जजागर्वानिति। क्वन्सौ यण्वद्भावाद् भन्जेरनुषङ्गलोपः, जागर्तेश्च "यणाशिषोर्यः " (३।६।१३) इति गुणः ।।१३६१। J 12 [क०त०] अर्त्तीण्०। कृतद्विर्वचनस्यैकस्वरत्वमिति श्लोकेनाह - अर्त्यादीति पञ्जी । पञ्यां पेचिवेत्यादि । ननु यदि प्रकृतिनियमे गृह्यमाणे पेचिवेत्यादाविट् न स्यात् तदा स्रादिनियमस्य कुत्र फलम् ? सत्यम्, अर्त्यादिभ्योऽन्यत्र ददृशिवेत्यादौ द्विर्वचने कृतेऽनेकस्वरे नियमस्य फलम् बोध्यमिति व्याख्यानादिति । इड्वन्सावित्यत्र कार्यिनिमित्तयोर्व्यतिक्रमनिर्देशादित्यर्थः । यद् वा "थलि च सेटि" (३|४|५२) इति वचनात्, यद् वा "पचिवचि ० (३।७।१८) इत्यादिप्रतिषेधात् । अन्यथैकस्वराणां वन्सावेवेति नियमादेव प्रतिषेधः सिद्ध इति भावः । यद् वा वन्साविति सप्तमीनिर्देशात्, अन्यथा वन्सोरागमत्वे षष्ठ्येव युज्यते इति धातुनैवेटः सम्बन्धात् प्रकृत्यवधारणम्। "" ननु कथमयं नियमार्थो यतः इडागम इत्यादिना प्राप्तः पचिवचीत्यादिना निषिद्धः । पुनः स्त्रादिनियमात् प्राप्तो " घोषवत्योश्च कृति " ( ४|६|८० ) इति निषिद्धोऽनेन विधीयते इति क्रमः । ततश्च विषयः स्यादित्याह टीकायां नन्वित्यादि । [ पाठान्तरम् - टीकायां नन्वित्यत्र समादधते? का क्षतिरिति नियमं स्फुटयति । शादीति प्रकृतिलक्षणस्य पचिवचीत्यादिना विहितस्य प्रत्ययलक्षणस्य “घोषवत्योश्च -
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy