________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
६०९ यनिवृत्त्यर्थमेकस्वरग्रहणं क्रियते चकासादीनामामा भाव्यमिति भावः । नैवम् , एकस्वरस्य सम्बन्धिनि वन्साविति संभाव्येत, यदा जागर्तेराम् विभाषा तत्र "ऊोतेश्च'' (३।६।८५) निवृत्ति: स्यात् तर्हि न जाग्रूर्णाभ्याम् अति विदध्यात् , अादिग्रहणं न कृतं स्यात् ? सत्यम् । "चकास्कास्प्रत्ययान्तेभ्यः'' (३।२।१७) इत्यत्र चकास्ग्रहणमनेकस्वरोपलक्षणम् । "कर्तुरायिः सलोपश्च'' (३।२।८) इत्यत्र आयेश्च लोप इति । नैवम्, द्वयं सूत्रकारस्य मतम् , ततश्चिरिजिविदरिद्रामपि निवृत्तिः स्यात् ।
श्रतपालोऽप्याह– दरिद्रातेसम नास्ति "आत औ णलः' इत्यौकारसामर्थ्यात प्रश्लिष्टावर्णस्थौकार इतरोऽपि श्लिष्टावर्णस्थौकारः। तत्र प्रयतोपादानोपरतेर्भेदाद् गौरवमिति। तस्मादादिग्रहणस्य ज्ञापकता युक्ता। आरिवान् इति “अस्यादेः सर्वत्र' (३।३।१८) इत्यभ्यासस्य दीर्घत्वे "ऋकारे च” (३।३।२०) इति नकारागम:, तत इट, “रम् ऋवर्णः” (१।२।१०) इति रत्वम्, ततो 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति नकारो निवर्तते। अथवा नकारकरणमनर्थकम् इति यदा इट् क्रियते ततो रत्वम् इति।
ईयिवानिति। अभ्यासस्य दीर्घ इण: परोक्षायाम् इति कृते दीर्घात् परलोपो न भवति। आस्तां दीर्घात् परलोप: एकस्वराद् भवतीति मन्यसे. नैवम्। इटि सति इणश्चेति यत्वेऽनिष्टरूपं स्यादित्याह- नैकत्वं वचनादिण इति। जक्षिवानिति। इटि सत्युपधालोपे अघोषे प्रथमस्ततो यत्वम् आदिवान, पेचिवानिति। "अस्यादेः सर्वत्र" (३।३।१८) इति दीर्घत्वे दीर्घात् परलोपः, अस्यैकव्यञ्जनमध्ये इत्यादिना एत्वमभ्यासलोपश्चेत्येकस्वरत्वाद् ददिवान्, पपिवानिति आदन्तादिटि सत्याकारलोप इति।।१३६१।
[वि०प०]
अर्तीण०। "सृवृभृस्तुद्रुश्रुनुवः'' (३।७।३५) एव परोक्षायामिति नियमात् 'पेचिव, शेकिव' इत्यादाविव परोक्षावद्भावाद् वन्साविड् भविष्यति किमनेनेत्याहस्रादीति। अयमर्थः- "इडागमोऽसार्वधातुक०" (३।७।१) इत्यादिनेटप्राप्तौ "घोषवत्योश्च कृति' (४।६।८०) इति प्रतिषिद्धः पुन: स्रादिनियमात् सिद्धोऽनेन नियम्यते। अत एव एवकार: सूत्रार्थे दर्शितः। वन्सावेवेति। प्रकृतिनियमस्तु न भवति, तदा हि वन्सोरनियतत्वाद् ‘बभज्वान्' इत्यादाविट् स्यात् 'पेचिव, शेकिव' इत्यादौ न स्यात्। तत् पुनर्व्याख्यानतो विशेषार्थप्रतिपत्तेरिति। आरिवानिति। ऋधातोर्वन्सौ द्विवचनम्। ऋवर्णस्याकार:, अस्यादेः सर्वत्रेति दीर्घः, ऋकारे चेति नकारागमः, ततोऽनेनेट्, “रम् ऋवर्णः'' (१।२।१०) इति रत्वे निमित्ताभावानकारनिवृत्तिः। यद् वा नकारो व्यर्थत्वान्न क्रियते।
ईयिवानिति। इणः क्वन्सौ द्विवचनम्, “दीर्घ इणः परोक्षायामगुणे" (३।३।१७) इति दीर्घ:, अनेनेट् दीर्घात् परलोपापवादः, इणश्चेति यत्वम्।