________________
६०८
कातन्त्रव्याकरणम्
को विहित है, अत: 'प्रशामौ' इत्यादि में नकारादेश की प्रवृति ही नहीं हो पाती है। फलतः उसकी निवृत्ति के लिए सूत्र बनाने की आवश्यकता भी नहीं होती। इस प्रकार अपने अपने व्याकरण की शैली के अनुसार यह भेद हुआ है। सामान्यतया तो उभयत्र समानता ही कही जा सकती है।
[रूपसिद्धि]
के
१-४. प्रशामौ ।, प्र-शम्+ क्विप् । प्रतामौ । प्र+तम्+ क्विप् + औ । जग्मुषः । गम् -क्वन्सु-ङस्। जग्मुषी। गम् + क्वन्सु - ई सि । सर्वत्र मकार के नकारादेश की निवृत्ति तथा विभक्तिकार्य ।। ।। १३६०।
१३६१. अर्त्तीण्घसैकस्वरातामिड्वन्सौ [ ४ । ६ । ७६]
[सूत्रार्थ] 'क्वन्सु' प्रत्यय के परे रहते 'ऋ, इण्, घस्, एकस्वरविशिष्ट आकारान्त' धातुओं से इडागम होता है ।। १३६१ ।
[दु०वृ०] अर्त्तीण्घसैकस्वरादन्तानामेव वन्साविड् भवत्यादिः । त्रादिनियमेन परोक्षावद्भावादिट् सिद्धो नियम्यते । आरिवान् ईयिवान्, जक्षिवान्, आदिवान्, पेचिवान्, दिदिवान्, पपिवान् । दरिद्राञ्चकृवान् इत्यामा भाव्यम् । अर्त्यादिग्रहणादेव वन्सौ द्विर्वचने सति । एकस्वरा ग्रहीतव्या नैकत्वं वचनादिणः । एषामिति किम् ? बभज्वान्, जजागर्वान् ॥ १३६१ ।
,
[दु०टी०] अर्त्तीण्० । ननु कथं नियम इति " घोषवत्योश्च कृति' (४।६।८०) इत्यनेनेट्प्रतिषेधाद् विधिरयमस्तु का क्षतिः । बुद्धिभेदमात्रं त्रादिनियमः प्रकृतिलक्षणस्य प्रत्ययलक्षणस्य च प्रतिषेधस्य विषये वर्तमानः प्रतिषेधं कुर्वन्निटं प्रतिप्रसूयति । यदि पुनः स्त्रादिनियम; प्रकृतिलक्षणमेव प्रतिषेधमेकस्वरस्येत्त्वं निवर्तयति न प्रत्ययलक्षणम्, तदा विधिः, "घोषवत्योश्च कृति" (४।६।८० ) इत्यत्र कृद्गृहणम् । नियमपक्षे " रुदादेः सार्वधातुके (३।७।३) इतीट् 'रुदिवः, रुदिमः' इति। प्रतिषेधस्य बाधितत्वादिट् न प्राप्नोतीति विधिपक्षे परोक्षार्थं च । रुरुदिवेति । अथ विपरीतनियमः कथन्न स्यात् – वसावेव नान्यत्रेति । तदा वन्सोरनियतत्वाद् बभूवान् इत्यादौ स्यात् । नैवम्, वन्सावेव सप्तमीनिर्देशाद् इटा प्रकृतीनां स्सम्बन्धो न वन्सोरिति कथं नियमः । टकारानुबन्धबलादिट् पुनर्वन्सोरेव स्यादिति विधिपक्षे षष्ठीसप्तम्योरभेद इति सप्तम्यापि निर्दिश्यते । यथा “हनृदन्तात् स्ये” इति वक्तव्यम् ।
अत्र्त्यादिग्रहणादेवेति । आदिग्रहणेन इण्घसादय उच्यन्ते । यदि पुनरिह द्विर्वचनानपेक्षया एकस्वरा गृह्यन्ते तदा अर्त्यादिग्रहणमनर्थकम् । एते ह्येकस्वरा इत्यर्थः परादपीटो नित्यत्वाद् द्विर्वचने सत्येकस्वरत्वात् प्रतिपत्तव्या भवन्त्येव । एकस्वरग्रहणसामर्थ्याच्च कश्चिद् ᄏ अकृते द्विर्वचनेऽनेकस्वरः संभवति,
"