________________
२६
कातन्त्रव्याकरणम स्यात् , ततो 'जग्मिवान् , जघ्निवान्' इति न सिध्यतीति चेत् , नैवम् । कानुबन्धबलाद् यणि दृष्टं कार्यमगुणत्वम् , ततो "गमहनविदविशदृशां वा" (४।६।७७) इतीटि कृते स्वरादावगुणे स्यादेवोपधालोप: । न च गुणिनां तृजादीनां गुणित्वविधानं स्यात् , निष्फलत्वात्। तर्हि क्तिप्रत्ययोऽपि गुणी स्याद् इत्याह - क्तेति किं निकुचितिरिति ।
एवं निगृहीतिः, उपस्निहितिरिति अनुषङ्गलोप-सम्प्रसारण-गुणप्रतिषेधाः सिद्धाः। इह घोषवत्योश्च कृतीटप्रतिषेधो नेष्यते इति सेट्त्वात् । एतदेवोक्तम् -
सेड गुणीति कृते योगे निष्ठायामवधारणात्। आख्याते न परोक्षायामगुणादनिटां सनि।। कानुबन्धबलादेव क्वन्सौ च प्रत्यये किल।
गुणिनां च गुणो नास्ति निकुचितिः प्रयोजनम्।। इति । ननु क्तेरपि कानुबन्धत्वमस्ति तदस्य क्वन्सोश्च को विशेष इति । सत्यम् , अपरः कश्चिदिह विशेषमाचक्षाणः क्तावेव प्रयोजनं प्रत्यपीपददिति । एषोऽपि तदेवाह, परमार्थतः पुनरिदमुपलक्षणम् । इह 'जग्मिवान्, जघ्निवान्' इत्यत्रापि प्रयोजनम् । अत एव किलशब्देनात्मनोऽरुचिं दर्शयति । किं च निष्ठायां विपरीतनियमोऽपि स्यादित्याह - शीङादीनामित्यादि । विपरीतनियमेन शयितेत्यादौ तृचोऽगणित्वम्, निगुदित इत्यादौ चानेन निष्ठायां गुणित्वमेव स्यादित्यर्थः । रुदविदमुषां सनीति । अनेनैव त एव रुदादयो गृह्यन्ते, न पुनरदादिगणपरिपठिता: इति दर्शितम् , आदिशब्दस्य वैफल्यप्रसङ्गात्। ते हि पञ्चैव रुदादयो रुदि-स्वपि-श्वसि-प्राणि-जक्षतयः। तत्र स्वपेरिडेव नास्ति, इतरेषां त्रयाणामस्ति केवलमगुणित्वे गुणित्वेऽपि विशेषाभावाद् रुदिरेव परिशिष्यते इति किमादिग्रहणेनेति भावः। ननु तत्रापि पारिशेष्याद् विदिर्ज्ञानार्थ इत्युक्तम्, न तु साहचर्यम्, यतो ज्ञानार्थादन्ये विद्यति-विन्दति-विन्तयस्त्रयोऽनिट इति "सनि चानिटि'' (३।५।९) इत्यनेनैवागुणित्वं सिद्धम् ? सत्यम् । साहचर्यव्याख्यानेऽपि न दोष इति मन्यते। अन्यथा लाभार्थादपि विदेरिटमिच्छन्ति केचिद् इति । तन्मतमाश्रित्य व्याख्यानान्तरमुक्तम्। रुदिना आदादिकेन सहचरितो विदिरादादिक एव गृह्यते, न तु 'विद्ल लाभे' (५।९) इति तौदादिक इत्यर्थः । व्युपधत्वाद् वा न स्यादिति । परत्वाद् "व्यञ्जनादेर्युपधस्यावो वा" (४।१।११) इत्यनेन च विकल्पो न स्यात् । अस्य प्रतिषेधस्यानर्थक्यप्रसङ्गादिति भाव: । 'वस निवासे' (१।६१४) एवेति, न तु 'वस आच्छादने' (२।४७) । तस्यायजादित्वेन गणित्वे चागणित्वे च विशेषाभावात् सम्प्रसारणकृतो हि विशेष इति । "शासिवसिघसीनां च" (३।८।२७) इति षत्वम् ।।८६४।
[क० च०]
गुणी० । पञ्जिका नाम्यन्तानामिति । एवं सनि चानिटि इत्यत्राप्यनिड्ग्रहणं बोद्धव्यम्, यतोऽनेन यावन्तः सेटप्रत्ययास्तावन्त एव गुणिनः, अनिटस्तु अगुण इति सिद्धं तर्हि