________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
२७ वचनमेवानर्थकम् , कथमनिड्ग्रहणस्यानर्थक्यमुद्भावितम्? सत्यम् , नियमार्थ भविष्यतिअनिट् सन् गुणी भवन् नाम्यन्तानां नाम्युपधानामेव, नान्येषाम् , तेन 'रिरंक्षति, सिस्वंक्षति' इति सिद्धम् । अन्यथा अगुणत्वान्नकारलोप: स्यात् । अथ तथापि नाम्यन्तानामनिटामिति वचनमनर्थकम् , “सनि चानिटि'' (३।५।९) इत्यत्रानिड्ग्रहणमपनीय सनि चेति क्रियताम् , नाम्युपधानां नामिना सनि गुणो भवतीति व्यावृत्त्या रिरङ्क्षतीत्यत्र कुतो गुणप्रसङ्गः, अयुक्तमेतत् । "सनि च" (३।५।९) इति सूत्रं नियमार्थं स्यात् । सनि नाम्युपधानामेवागुणो नान्येषामिति व्यावृत्त्या नाम्यन्तानामनिटामप्यगुणत्वं बाध्यते, तस्मान्नाम्यन्तानामिति कर्तव्यमेव ।
न चेति । अथ तृजादीनां गणित्वे सत्यपि नियमो भविष्यति, तृजादीनां सेटामेव गुणित्वम्, तेन 'कर्ता' इत्यादौ गुणो न स्यात् , नैवम् । 'विधिनियमसम्भवे विधिरेव ज्यायान्' (का० परि० ८४) इति कर्तरि रुचादीत्यादिज्ञापकाच्च । अथ भिन्नकर्तृकत्वात् कथं "सनि चानिटि" (३।५।९) इति । ज्ञापकं चेत् सापेक्षपक्षमाश्रित्य बोद्धव्यम् । निरपेक्षपक्षे तु इदमपि दूषणान्तरं भविष्यति । कश्चिद् इह विशेषमिति एकं हेमोक्तमिति न लिखितम् अन्यच्चकारपाठसामर्थ्यं पुनरिदमुपलक्षणमिति निकुचितिरिति निर्गलितार्थः।
___ अथ स्वमते तथापि क्त्वाग्रहणं न क्रियताम् , भिन्नवाक्यतापक्षे तु 'जघ्निव, जग्मिव' इत्यत्र यद् दूषणान्तरमुक्तम् , तद् "जागुः कृत्यशन्तुङ्ख्योः " (४।१८) इत्यतः कृदधिकारादर्थवशाद् विभक्तिविपरिणामे सति कृत् सेडेव गुणी भवतीति सूत्रार्थे कुत आख्यातेऽस्य विषयः । यच्च स्वमते जनिवान् इत्यादौ दूषणान्तरम तत्रापीयं युक्ति:"आनोऽत्रात्मने" (४।४।५) इति वचनादेव "सर्वत्रात्मने" (३।५। १) इति कानस्यागुणत्वं सिद्धम, किं कानुबन्धेन। तस्मात् स्वमते प्रयोजनाभावात् क्वन्सौ सार्थकः कानुबन्धः, क्तिप्रत्यये न प्रयोजनम् , यादृग्जातीयस्य विप्रतिषेधो विधिरपि तादृग्जातीयस्येति न्यायात्। अथ पक्ष्यां निगृहीतिरिति कथं प्रत्युदाहृतं सूत्रे ग्रहवर्जनादेव न भविष्यति ? सत्यम् । रुदादीनां तावत् क्तौ इट् न संभवति, तत्साहचर्यादन्येषामपि क्तिप्रत्ययभिन्न एव बोद्धव्यं सेड् गुणीति ? सत्यम् , उत्तरार्थं क्त्वाग्रहणमवश्यं कर्तव्यम् । तथा च पुनः क्त्वाग्रहणं यद् गुणी मा भूदिति, एतच्चात्र स्थित एव क्त्वाग्रहणे शक्यते वक्तुम् । न च शीङादीनां सेड् निष्ठैवेति विपरीतनियमनिरासाथमिति वाच्यम्, प्रत्ययस्य विशेष्यत्वेन प्राधान्यात् तस्यैव नियमो युक्तस्तथा सेड्ग्रहणमनर्थ "स्कन्दस्यन्द्वोः क्त्वा" (४।१।१०) इत्यनिड्वचनादिह सेडेवावधारयिष्यते? सत्यम् । "स्कन्दस्यन्द्वोः क्त्वा '' (४।१।१०) इति विपरीतनियमोऽपि स्यात् । अथ प्राधान्यात् प्रत्ययनियम एव भविष्यति ? सत्यम्, स्कन्दस्यन्द्वोः कानुबन्धाश्रितमगुणत्वं नास्तीत्यपि ज्ञापयितुं शक्यत्वात् । अथ यदव्यभिचारिणा व्यभिचारी नियम्यते, तत्साहचर्यम्। इह तु सेड्विधिरन्य एव नास्तीति कुतोऽस्य