________________
२५
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः सेड् गुणीति कृते योगे निष्ठायामवधारणात्। आख्यातेन परोक्षायामगुणादनिटां सनि।। कानुबन्धबलादेव क्वन्सौ च प्रत्यये किल।
गुणिनां च गुणो नास्ति निकुचितिः प्रयोजनम् ।। क्त्वेति कानबन्धो मन्दमतिबोधार्थः। अरुदादीत्यादि । रुदादिरिह सूत्रगणो गृह्यते न धातुगणः, आदिशब्दस्य वैफल्यादित्याह - रुदीत्यादि । रुदिसहचरितो विदिर्ज्ञानार्थ इति सुखप्रतिपत्त्यर्थम् उच्यते, यस्माद् विद ज्ञाने इत्यस्मादन्ये विदोऽनिट इति "सनि चानिटि" (३।५।९) इति गुणप्रतिषेधः सिद्ध एव । साहचर्यं पुनरत्र सूत्रपाठकृतमेव प्रतिपत्तव्यम् । अथवा मतान्तरमाश्रित्योक्तं लाभार्थादपि विदेरिटमिच्छन्त्यन्ये इति रुदिनादादिकेन सहचरितस्य 'विद ज्ञाने' इत्यस्य ग्रहणमित्यर्थः ।व्युपधत्वाद् वा न स्यादिति, अन्यथैषामिह प्रतिषेधो व्यर्थ: स्याद् इति भावः । सिद्धे गुणत्वे विभाषा तत्र विधेयेति अत्र रुदादिप्रतिषेधः। ननु "क्त्वि रुदादिक्षुधकुशक्लिशगुधमृडमृदवदवसग्रहाम्" इति सूत्रमास्ताम्। सिद्धे सति नियम एषामेव यण्वद् भवति नान्येषामिति । नैवम् , विपरीतनियमोऽपि संभाव्येत रुदादीनां क्त्वाप्रत्यय एव यण्वदिति ॥८६४।
[वि० प०]
गुणी० । ननु गुणोऽस्यास्तीति गुणी धातोरभिधानं प्राप्नोति न प्रत्ययस्य, गणोऽस्मिन्नस्तीति सप्तम्यर्थे इन्प्रत्यये गणी क्त्वेति युज्यते वक्तुम् । न चेह सप्तम्यर्थे मत्वर्थीयोऽस्ति, तदस्यास्तीति षष्ठीमात्रनिर्देशादित्याह - यस्मिन्नित्यादि । एतेन षष्ठीसप्तम्योर) प्रति भेदो नास्तीति दर्शितम् । यथा वृक्षस्य शारदा, वृक्षे शाखा । घटस्य रूपम् , घटे रूपमिति । ननु भेदोऽपि दृश्यते, यथा गङ्गायां गावो न च तास्तस्या इति । तथा देशान्तरगतोऽपि पुत्रो देवदत्तस्य भवति, न चासौ पुत्रस्तस्मिन्निति। तदयुक्तम् , लोके हि तदाश्रयत्वात् तद्व्यदेशोऽपि दृश्यते, यथा रथ्यायाः पुरुषान् आह्वय, शालायाः पुरुषान् पश्येति । अथ यदि गङ्गायां गावः, देवदत्ते पुत्र इत्यपि स्यात् , न तदा काचिद् वस्तुक्षतिरिति ।।
__ अथ क्त्वाग्रहणं किमर्थम् "गुणी सेडस्मादि०" (४।१।९) इत्यादि सूत्रमास्ताम्? सत्यम् । अविशेषान्निष्ठाप्रत्ययोऽपि गुणी त् , यथा 'गुद क्रीडायाम्' (१।३०९), निगुदितः, निगुदितवानिति चे, , नैवम् । अनेन सामान्ये नैव सिद्धे शीफूङ्घृषिक्षिदिस्विदिमिदां निष्ठा संडिति वचनमवधारणार्थ भविष्यति । शीङादीनामेव सेड् निष्ठा गुणिनी नान्येषामिति, तर्हि परोक्षापि गुणिनी स्यात् , ततो 'जग्मिव, जघ्निव' इति न सिध्यति । गुणित्वेन "गमहन०" (३।६।४३) इत्यादिनोपधालोपस्याभावात्, तदप्ययुक्तम् । “नाम्यन्ता मिनिटाम्" (३।५।१७) इत्यनिग्रहणात्। तद्धि शिश्रयिषतीत्यत्र सेट्सनो गुणित्वार्थमनिड्रहणम् । तदनेनैव सिद्धम् , किन्तेनानिड्ग्रहणेनेति । तस्मात्राम्यन्तानामनिटां सन्यगुणविधानादाख्यात करणेऽपि परोक्षायां न गुणप्रसङ्ग इति । तर्हि क्वन्सुप्रत्ययोऽपि गुणी