________________
कातन्त्रव्याकरणम्
८६४. गुणी क्त्वा सेडरुदादि - क्षुध - कुश क्लिश
गुध- मृड - मृद- वद-वस- ग्रहाम् [ ४ । १ । ९ ]
[सूत्रार्थ]
इडागमसहित क्त्वा प्रत्यय होने पर गुणादेश होता है, रुदादि-क्षुध आदि धातुओं को छोड़कर ।।८६४| [दु० वृ० ]
अरुदादिक्षुधादीनां क्त्वा सेड् गुणी भवति । यस्मिन् यो भवति स तस्येति विवक्षायामिन् । शयित्वा, देवित्वा, स्रंसित्वा । क्त्वेति किम् ? निकुचितिः । शीङादीनां सेड् निष्ठैवेति नियमश्च स्यात् । सेडिति किम् ? कृत्वा । अरुदादिक्षुधादीनामिति किम् ? रुदविदमुषां सनीत्यत्र रुदिसहचरितो विदिर्ज्ञानार्थः । रुदित्वा, विदित्वा, मुषित्वा, क्षुधित्वा, कुशित्वा । क्लिश, क्लिशू - क्लिशित्वा, गुधित्वा व्युपधत्वाद् वा न स्यात् । मृडित्वा, मृदित्वा । वद-उदित्वा । वस निवास एव यजादित्वात् । उषित्वा । क्षुधिवसोश्चेतीट् । गृहीत्वा ।।८६४।
२४
-
[दु० टी०]
यण्वद्भावादगुणत्वे प्राप्ते वचनम् । अरुदादीत्यादि । रुदादिभ्योऽन्येषां धातूनां सम्बन्धी समीपो वा क्तप्रत्यय इत्यर्थः । कश्चिद् महाधात्वधिकारमाश्रित्य प्रसज्यप्रतिषेधोऽयमिति मन्यते। ननु गुणो विद्यते यस्मिन्निति विग्रहे कथमिन्प्रत्ययस्तदस्यास्तीति षष्ठीमात्रनिर्देशात् ? सत्यम्, षष्ठ्यर्थ एवेन्प्रत्यय इति मनसिकृत्याह - यस्मिन्नित्यादि । गुणीत्यपनीय न क्त्वि सेटीति नञ् कुर्यात् क्त्वाप्रत्यये यण्वदिति प्रतिपत्तिगौरवं स्यात् । निष्ठायां सेटि भावादिकर्मणोर्वोदुपधस्येति निर्देशे नास्ति लाघवम्, क्त्वाग्रहणं किमर्थं गुणी सेड् इत्युच्यताम् - निगुदित इति निष्ठाप्रत्ययोऽपि गुणी स्यात् चेत् न । शीङादीनामेव सेड् निष्ठा गुणी नान्येषां गुदादीनामिति नियमात् । तर्हि परोक्षापि गुणिनी स्यात् ततो जग्मिव, जघ्निवेति न सिध्यति "गमहन ० " ( ३।६।४३) इत्यादिनोपधालोपस्याभावात् ? सत्यम् । “नाम्यन्तानामनिटाम्" (३/५/१७) इति वचनादाख्यातिको न गुणीति विज्ञापयति, अन्यथा सेट्कत्वादेव सनो गुणित्वं सिद्धम्, किं नाम्यन्तानामनिटाम् इत्यनेनेति भावः ।
क्वन्सुस्तर्हि गुणी स्यात्, 'जग्मिवान्' इति दुष्यति, मैवम् । कानुबन्धत्वाद् यणि दृष्टं कार्यमगुणत्वम् ‘“गमहनविदविशदृशां वा" (४/६/७७ ) इतीटि कृते स्वरादावगुणे स्याद् उपधालोपः, तर्हि क्तिरपि गुणिनि स्यादित्याह - क्त्वाग्रहणमित्यादि । कुन्चेरनुषङ्गलोपः सिद्ध एव, उपस्निहितिरिति गुणः त " घोषवत्योश्च कृति " (४।६।८०) इति क्तौ प्रतिषेधो नेष्यत इति ग्रहादीनामिट् । विपरीतनियमोऽपि स्यादित्याह - शीङादीनामिति । 'नानिष्टार्था शास्त्रे प्रक्लृप्तिः' (भोजपरि० १०७) इति बालैर्नावगम्यते ।