SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् [दु० टी०] चजोः। ध्यानबन्धयोः परयोर्धातोश्चजोः कगौ भवन इति विवक्षा धुड्घानुबन्धयोश्चजाविति सम्बन्धस्याविवक्षा इत्याह- चोरिति। कता यथासङ्ख्यमनुदेश: समानामित्यर्थः। नित्यमित्यादि। पगनित्यम्, नित्यादन्तरङ्गं वलीय इत्यर्थः। अन्तरङ्ग पुनः प्रकृत्याश्रयत्वात् तेन चवर्गस्य किरसवणे भवतीति कृत्यघानुबन्धे न भवतीति प्रतिपद्यतेति न पुनर्भूतपूर्वधुडवधारणा) धुड्ग्रहणम् इत्यर्थ:। निष्ठायामनिटो धातोरिति कश्चिद् आह। तेन अर्जसर्जप्रभृतीनां निषेध: सिद्धो भवति. तदसत्। अभिधानादेव घ्यणघओ न दृश्यते। अत एव न कवर्गादिव्रज्यजामिति अर्चिशुचिरुचियाचीनां च विशेषप्रतिषेधमाह। किञ्च शुचे: शोकः, रुचे रोकः। निष्ठायां सेटोऽपि कत्वं न दृश्यते. अभिधानात्। 'अर्य:, अर्चः' इति घ्यणि घनि न भवति। दृश्यते च घनि अर्कः, रुचेर्मक रुक्म इत्यादि।।१३४१। [वि०प०] चजोः। धुड्यानुबन्धयोः परयोयों धातुम्नस्य चजो: कगाविति कार्यिकार्ययोरेव यथासङ्घयमित्याह- निमिनेनेत्यादि । धुटि चस्य कः, घानुबन्धे जस्य गः इति सम्बन्धो न विवक्षित इति। अथ किमर्थं धुग्रहणम्- चवर्गस्य किरसवणे इति धुटि कत्वमस्त्येव? सत्यम्। भूतपूर्वधुटप्रतिपत्त्यर्थम्. तेन "ल्वाधोदनुबन्धाच्च'' (४।६।१०४) इति नित्यत्वान्नत्वेऽपि स्यात्, तदयुक्तम् इत्याह- भुग्न इति। परान्नित्यम् , नित्यादन्तरङ्ग बलीय इति भावः। परिहारमाह— अघानुबन्ध इत्यादि। चजोः कगौ घानुबन्ध इति कृते तृजादौ घानुबन्धे व्यावृनिः स्यात्, आख्यातिकलक्षणमपि प्रवर्तितुमर्हति।।१३४१। [क० त०] चजोः। सम्बन्धस्याविवक्षितत्वादिति। ननु कथमिदमुच्यते प्रवचर्चिरुचियाचित्यजामिति घ्यणि कत्वगत्वप्रतिषेधादेव निमित्ताभ्यां कार्ययोर्यथासङ्ख्यं न भविष्यतीति? सत्यम्। तस्मादेव प्रतिषेधवचनाद् विवक्षा, न तु विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वादिति बोध्यम्। किरस्तीति अन्तरङ्गत्वात् कत्वेऽपि कृते 'भक्तः' इत्येव स्यात्। न च धुटां तृतीयः इत्यादिना तृतीयो भविष्यतीति वाच्यम्, चतुर्थेष्वेवेति नियमात्? सत्यम्, एतदर्थमपि धुड्ग्रहणमिति बोध्यम्। यत्तु घानुबन्धे कृति व्यावृत्तिः स्यादिति प्रयोजनमुक्तं तन्मख्यतयेति बोध्यम्। कथं तस्य मुख्यतेति चेत् "चवर्गस्य किरसवणे' (३।६।५५) इत्यत्र 'गिरसवणे' इति कृते गत्वस्य सिद्धत्वात्। __ननु सिद्धान्ते तु 'भुग्नः' इत्यादौ अन्तरङ्गत्वाद् गत्वे कृतेऽनन्तरत्वाद् अघोघे प्रथमः” (२।३।६१) कथन स्यादिति. न च सकृद्बाधितत्वादिति वाच्यम्, ‘भोग:' इत्यादौ चरितार्थत्वात्। न च धुट्प्रत्ययेऽनर्थकता, गकारस्य कत्वेऽपि सार्थकत्वात्। अन्यथा घानुबन्धे कृति व्यावृत्तिः स्यात्? सत्यम्, कत्वे कृते निमित्नाभावे नैमित्तिकस्याप्यभावो भविष्यति।। १३४१।।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy