________________
५९०
कातन्त्रव्याकरणम्
प्रादुष्कृत्वा। आविष्कृत्य, आविष्कृत्वा। अत्र प्रादुराविषोः पाट. कृञोऽन्यत्र निन्यार्थः। एवं प्रादर्भय, आविर्भूय। एवं ळ्यन्ता डाजन्ताच- शक्लीकृत्य, पटपटाकन्य। विडाचौ कभ्वस्तिष्वभिधीयेते. ऊर्यादयोऽपि तेभ्य एव प्राक् सिद्धा इत्युक्तम्। तिरस्कृत्वा. उपाजेकत्वेति। सतिग्स् इत्यादिना विकल्पविधानादिह पक्षे समासो न भवति।।१३४०।
[क० त०]
समा०। क्त्वान्तेनैवति। परभूतेन क्वान्तेन नभिन्नस्याव्ययस्य पूर्ववर्तिन इति, न तु पूर्ववर्तिनः क्त्वान्तेनेति विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात्। दीर्घादिकं न स्यादिति। नन् तथापि किमर्थं भाविग्रहणं निमित्नाभावे नैमित्तिकस्याप्यभावो भविष्यति। नैवम्, 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इति न्यायाद् दीर्घादेः स्थिति: स्यात्। तथाहि अन्तरङ्गे नैमित्तिकाभावे कर्तव्ये बहिरङ्गो यबसिद्धः स्यादिति धुडादिर्भवत्येवेति भाविग्रहणम्। यद् वा 'उपेत्य' इत्यादौ प्राक् समासे पश्चाद् यपि सति ह्रस्वान्तत्वाभावात् तकारागमो न स्यात्। एतदर्थं क्रियमाणमन्यदपि विषयीकरोतीति भाविग्रहणस्थितौ समासस्य भावित्वं यव्विधानस्य पूर्वत्वं ततश्च तकारागमादेरपि पूर्वत्वं बोध्यम्। अन्यथा समासाद् यपः पूर्वत्वे को लाभ:।
पद्भ्यां तेनेत्यादि। ननु यथा क्त्वान्तेन समासस्तथाव्ययेनापि भवति, तत् कथं प्रत्युदाहरणं संगच्छते? सत्यम्, चिन्त्यमेतदिति दुर्गादित्यः। सान्तयोरव्यययोग्रहणमिति अन्यः। वस्तुतस्तु प्रसज्याथें नजि गृह्यमाणे सति नोऽभावे क्त्वान्तेन समासे सति यप स्यादिति सूत्रार्थ: स्यात्। तथा च सत्यत्रापि स्यात्। पर्यदासे त् नञः सदृशस्य क्त्वान्तेन समासे यप् स्यादित्यर्थे नसदृशस्य पूर्वत्वं क्त्वान्तस्य परत्वमिनि क्रमो लभ्यते। तेनात्रापि स्यादित्याह- तेनेति। तेन पर्युदासेन ना सिद्धमित्यन्वयः। ननु नञ् प्रसज्यवृत्तिः कथन स्यादिति चेद् न, अनज इति समासदर्शनात्? अन्यथा प्रसज्यनञः क्रियासम्बन्धात् समासाभाव: स्यात्। यस्तु प्रसज्येऽपि क्वचित् समासो दृश्यते, स तु न सर्वत्र। अकर्तरीत्यत्र कारकग्रहणेन ज्ञापितत्वात्।
भूषणेत्याद। यथासंख्यादिति पूर्वणैव संगच्छते. अन्यथा एकस्यार्थद्वये वर्तमानत्वेऽपि प्रतिषेधार्थः। ‘अलङ्कृत्वा' इत्यत्र न भविष्यति। ननु भाविग्रहणं किमर्थं "यपि चादो जग्धिः '' (४।१८२) इत्यत्र यग्रहणम् अन्तरङ्गबाधकं भविष्यतीत्याहटीकायामेवं चेत् तीति।
[पाठान्तरम्-स्वमतसाधनार्थं परमतमाह- तथा चेति। ल्यबिति परमते यप: सञ्ज्ञा, तीति तादावित्यर्थः। कितीति। कानुबन्ध इत्यर्थः। अर्द्धार्यया देश्यमुक्त्वा पर: सिद्धान्तयति इडिति इट्प्रभृतीनामपि यप् बाधक: स्यादित्यर्थः। ततः कृतमिति ल्यब्ग्रहणं कृतमित्यर्थः। भाविग्रहणं कृतमित्यर्थं कुर्वन्त्यन्ये। तत्सिद्धेरिति। तेषामिट