________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५८९
साक्षात्प्रभृतीनां वृत्तावर्थो न दर्शितः । अलमादीनां भूषणादय इवेति । मध्य इति । कृजेति सर्वत्रानुवर्तते । वेतीति नित्याबाधे । एते पाणौपर्यन्ताः सप्तम्यन्तप्रतिरूपका अव्ययाः । पक्षे मध्येकृत्वा, पदेकृत्वा । वचनानामभावो निवचनम् - निवचनेकृत्वा । वाचं नियम्येत्यर्थः। अत्याधानमुपश्लेषः, ततोऽन्यदनत्याधानं तस्मिन्निति । अन्यत्र न भवति— हस्तिनः पदेकृत्वा शिरः शेते ।
उरसीति। उरसिकृत्य, अभ्युपगम्येत्यर्थः ।
मनसिकृत्य, निश्चित्येत्यर्थः। अनत्याधान इत्येव- उरसि कृतवा पाणिं शेते । उद्वाहो विवाहः । बन्धन इति । प्राध्वमव्ययमानुकूल्ये वर्तते तच्चेदानुकूल्यं बन्धनहेतुकं भवति । बन्धेन हेतुना भवतीत्यर्थः । इह न भवति 'प्राध्वं कृत्वा शकटं गतः' इति । प्रगतोऽध्वानं प्राध्वम् “उपसर्गादध्वन्” (२।६।७३ - ३२) इति राजादित्वादत् । केचिद् इह लाक्षणिकत्वान्न भवतीत्याशङ्क्य बन्धनग्रहणमनव्ययस्यापि समासार्थं समर्थयन्ते । तेन यदा बन्धनेन शक्यस्याध्वनि सामर्थ्यलक्षणम् आभिमुख्यलक्षणमानुकूल्यं विवक्ष्यते, तदा प्राध्वंकृत्य शकटं गतः इति स्यात्। तदयुक्तम्, अबन्धनहेतुकानुकूल्यनिवृत्तिफलत्वाद् बन्धनग्रहणस्य कथं ज्ञापकत्वम्, कथं वाऽनव्ययस्य मकारान्ततेति चिन्त्यम् । समासे हि द्वितीयालोपोऽस्तीति।
उपनिषदौपम्ये, जीविका चेति । उपनिषदमिव कृत्वा, जीविकामिव कृत्वा इत्यनव्ययवाक्येनार्थकथनम्। उपनिषद् रहस्ये, जीविका जीवनोपाये। पूर्वे समस्ताश्चेति। एतेऽव्ययाः सर्वे धातोः पूर्वे कृतसमासाश्च कृद्भिरित्युक्तमेव । एवम् ऊर्यादिच्विडाचोऽपि वेदितव्याः । ‘ऊरीकृत्य, ऊररीकृत्य' एतावङ्गीकरणे विस्तारे च । पाम्पीत्ययं विध्वंसे माधुर्ये च पाम्पीकृत्य । अपरे त्वाहुः - करणविलापे पाम्पीकृत्य । 'ताली, आताली' एतौ वर्णे। अपरे एतावुत्तमे इत्याहुः । वेताली वैरूप्ये । केचिन्न पठन्त्येव । धूसी (ली) कान्ते, आकाङ्क्षायामित्यपरे। 'सकला, संशकला, भ्रंशकला, आलम्बी, लोष्टी, केवाली, शेवाली, पर्याली, वर्षाली, सम्मसा' एते दश हिंसायाम्। अपरे सकलादयश्चत्वारः परिभवे । आलम्ब्यादयोऽपि चत्वारः प्राकाश्ये, अन्त्यौ द्वौ चूर्णे संवरणे चेत्याहुः । गुलगुधा पीडायाम्, क्रीडायामित्यपरे । सजूः सहार्थे । 'फल्गु' फली, आक्ली, विक्ली' एते चत्वारो विकारे । अपरे त्वाहु:- आद्यौ क्रीडासम्पत्तौ, अन्त्यौ . विकारे, विभागे इत्यन्ये।
'वषट् श्रौषट्, वौषट् स्वाहा, स्वधा' एते पञ्च हविर्दाने । अन्ये सामान्येन देवतासम्प्रदाने ं विशेषस्तु वषट् अग्नये, स्वधा पितृभ्य इत्याहुः। इतरे वषट् पूजायाम्, स्वधा तृप्तिप्रीत्योरित्याहुः । अन्ये प्रीत्यभिवादने चेत्याहुः । श्रत् श्रद्धायां दधातिप्रयोगेषु युज्यतें श्रद्धाय श्रद्धां कृत्वा इत्यर्थः । प्रादुस् आविस् प्राकाश्ये । इत्यूर्यादयः । प्रादुस्आविस्' शब्दौ साक्षात्प्रभृतिषु पठ्येते । तेनानयोः कृञा वा समासो भवति प्रादुष्कृत्य