SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ५८८ कातन्त्रव्याकरणम् अस्तमित्यनुपलब्धौ, अन्यत्र न भवति। पुरः कृत्वा, नगरी: कृत्वेत्यर्थः। अन्नं कृत्वा. क्षिप्तमित्यर्थः। अच्छ चेति। अच्छशब्दोऽभिशब्दार्थेऽव्ययः। वदिना च चकार आर्यापूरणे। गत्यर्थवदिभिरिति किम्? अच्छ कृत्वा। अव्ययादन्यत्र न भवति, उदकमच्छं गत्वा। अनुपदेशेऽदसिति। स्वबुद्ध्या परामशोऽनुपदेशः। अव्ययोऽयमदःशब्दो न त्यदादिपठितः। अन्यत्र अद: कृत्वा कुण्डं गतः, परस्य कथयेत्यर्थः। तिरोऽन्ताविति। अन्तर्द्धिव्यवधानम्। अन्यत्र तिरो भूत्वा स्थितः। अनृजुर्भूत्वा स्थितः। पार्श्वतः तिर्यग् भूत्वा इत्यर्थः। को विभाषाऽस्य वक्ष्यते इत्यत्रोदाहृतम्। सतिरसिति। अन्तद्धौं वर्तमानस्तिर:शब्दः। 'उपाजे-अन्वाजे' शब्दौ विभक्त्यन्नप्रतिरूपको दुर्बलस्य बलाधाने वर्तमानौ। वेति विभाषयेत्यर्थः। पक्षे निरस्कृत्वा. उपाजेकृत्वा, अन्वाजेकृत्वा। साक्षात्प्रभृतीनि च्यर्थवृत्तीनि अच्च्यन्तानि गृह्यन्ते। असाक्षात् साक्षात् करोति साक्षात्कृत्वा। एवम् अमिथ्या मिथ्या करोति मिथ्याकृत्वा। च्च्यन्तानां तु नित्यसमास एवाभिधीयते साक्षात्कृत्य। यदा तु न च्छ्यर्थवृत्तिता किन्तर्हि साक्षात्कृतस्य प्रत्यक्षतामुपगतस्यैव किञ्चिदन्यत् क्रियते, तदा साक्षात्कृत्वेत्येतदेव स्यात् न यप् समासाभावात्। साक्षात्, मिथ्या. चिन्ता. भद्रा, रोचना, अमा, आस्था, अस्ना (अघ्ना), प्राजर्या, प्राजरुहा, वीजा, वीजरुहा, संस्सयां, अर्थे (अग्लो), अग्नौ वशे, विकपने, प्रकपने,विहसने, प्रहसने। एते सप्तम्यन्तप्रतिरूपका:। लवणम्, उष्णम्, शीतम् , उदकम् , आर्द्रम्। एते स्वभावान्मान्ताः। नमस्, प्रादुस्, आविस्। इति साक्षात्प्रभृतीनि। एषां यथादर्शनमर्थः कथ्यते- साक्षात् प्रत्यक्षे सादृश्ये च। मिथ्या अनृतार्थे। चिन्ता मानसव्यापारे। भद्रा आलोचनप्रशंसायाम्। रोचना दीप्तिप्रशंसयोः। लोचनेति केचिद् दीप्तौ पठन्ति। अमा रह:समवायसहयोगसामर्थ्यषु। आस्था आदरे प्रतिज्ञायां च। अस्ना निर्मलीकरणे। केचिद् अघ्नेति पाठं मन्यन्ते। घस्ल अदने इत्यस्य निष्ठान्तस्य नसमासे आकारान्तो निपात इति तदास्यार्थान्तरानभिधानात् प्रकृत्यर्थवृत्तितैव गम्यते, तथा प्राजर्यादीनां चतुर्णाम्। तथाहि सङ्गतार्थस्य अजर्याशब्दस्य प्रादिसमासे प्राजयेंति निपात:। कैश्चिद् अत्र प्राजुरेत्यभिधीयते। प्रपूर्वाद् अन्जे: कुरप्रत्यये रूपं प्राजरुहेति। प्राजपूर्वाद् रुहेर्मूलविभुजादित्वात् कः। बीजयति। बीजेनार्येति समासे आर्याशब्दस्याकारलोपो निपातनात्। ____बीजरुहेति। बीजाद् रोहतीति पूर्ववत् कप्रत्ययः। गणपाठाच्चैषामव्ययानामाकारान्तता। संसर्या प्रयोजन संवरणे च, अर्थे शब्द: प्रयोजने निवृत्तौ च। अग्लो तेक्ष्ण्ये, वशे अस्वातन्त्र्ये, विकपने प्रकपने च वैरूप्ये। विकपने हिंसायां प्रकपने सन्तापे इत्येके। विहसने उत्साहे सामर्थ्य च तथा प्रहसन इति। लवणं रुच्यथे, उष्णमभिनवे, शीतमनादरे, उदकं क्लेदे द्रव्ये च। आर्द्र सोदकाभिनवयोः, नमस् प्रणामे, प्रादुस् आविस् प्राकाश्य। एतेऽर्थाः प्रसिद्धाः। प्रयोगानुसारेणान्येऽप्युदाहरणीयाः। अत एव
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy