SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः ५८७ एवम् ऊर्यादयश्च। ऊरी-ऊररीशब्दावङ्गीकारे विस्तारे च। ऊर्गकृत्य ऊर्गकृत्य वदति। पाणीकृत्य, तालीकृत्य? अतालीकृत्य, वेतालिकृत्य, घुषिकृत्य, पकलीकृत्य। सकलादयो हिंसायाम्। गुलगुधा पीडार्थे, गुलुगुधाकृत्य। सजुः सहाथै, सजुःकृत्य, फलूकृत्य, फलीकृत्य, आक्लूकृत्य। फलादयो विकारे। आलम्बीकृत्य, केवालीकृत्य, देवालीकृत्य, वाङ्गालीकृत्य, मसमसाकृत्य, समसमाकृत्य, आलम्ब्यादयो हिंसायाम्। श्रौषट्कृत्य, वौषट्कृत्य, स्वाहाकृत्य, स्वधाकृत्य, प्रादुष्कृत्य। एवं च्यन्ता डाजन्ताश्च। शक्लीकृत्य, पटपटाकृत्य।।१३४०। [वि०प०] समासे०। नोऽन्यस्येति। पर्यदासोऽयमिति वक्ष्यति। स च सदृशग्राहीति। नञोऽन्यस्याव्ययस्येत्यर्थः। क्तप्रत्ययस्य श्रुतत्वात् तदन्तेनापि धातुना समासो गम्यते इत्याह- क्तान्तेनैवेति। तेन स्नात्वाकालकः, पीत्वास्थिरकः इति समासेऽपि पूर्वस्य क्त्वो यप् न भवतीति। यस्तु मन्यते वाक्यमेवेदं न समास:। स्नात्वाकालको भवति, पीत्वास्थिरको भवतीति गम्यमानत्वात् तदा देश्यमेव नास्तीति भावीत्यादि। भविष्यतीति भावी समासः। तस्मिन् विषये यबादेशो भवन् समासनिष्पत्तेः प्राग उपदिश्यमानस्येव क्त्वो यबित्यर्थः, तेन तकारस्य धुटः क्षणमपि स्थितेरभावात् “पञ्चमोपधाया धुटि चागुणे" (४।१।५५) इति दीर्घत्वम्। वनतितनोत्यादिना पञ्चमलोपः, आतश्चाद् भवतीति “च्छ्वोः शूटौ पञ्चमे च' (४।१।५६) इति न भवति तोऽन्तश्च स्यादिति। दीर्घत्वादेरिवोपसर्गसम्बन्धादपि प्राग भविष्यति। समासे यपि कृते तोऽन्त इत्यर्थः। नन्वत्र साधनायत्तत्वात् क्रियायाः प्रत्ययकार्यमेवेत्युक्तम्? सत्यम्। किन्त्वेतस्मिन् सति तदुक्तम्, अन्यथा समासानन्तरं यबिति कथमुपसर्गसम्बन्धः पूर्वं न स्यात् समासस्योभयपददर्शितत्वादिति। ___ खाट्कृत्येत्यादीनामुदाहरणानामार्याभिरभिधानव्यवस्थामाह- अनुकरणं च कृतेति। पूर्वे समस्ताश्चेति वक्ष्यति, तेनायं सम्बन्धः। अनुकरणं त्याद्यन्तात् कृदन्ताच्च पूर्वं निपतति, कृता कृदन्तेन च समस्यते। चकारान्न केवलम् अनुकरणम् प्रादय उपसर्गाश्चेति सूचयति। एवमुत्तरत्रापि। खाडिति कृत्वा निष्ठावतीत्यत्र न भवति इतिशब्देन व्यवधानात्। भूषणेति। भूषणं मण्डनं तत्रालम्, आदरः प्रीत्या सम्भवः,तत्र सत्। अनादरः परिभवः, तत्रासत्। यथोक्तार्थादन्यत्र न भवति। अलं कृत्वा, न कर्तव्यमित्यर्थः। सत् कृत्वा, विद्यमानमित्यर्थः। असत् कृत्वा,अविद्यमानमित्यर्थः। अग्रहणेऽन्तरिति। ग्रहणं स्वीकारस्ततोऽन्यद् अग्रहणम्। ग्रहणे न भवति। अन्तर्हत्वा मूषिकं गतः, श्येनो गृहीत्वा गत इत्यर्थः। तृप्तौ चेति। चकार आर्यापूरकः। कणे इति सप्तम्यन्तं प्रतिरूपकमेवाव्ययम्। मनश्च तृप्तावर्थे। तृप्तेरन्यत्र न भवति। तण्डुलस्य कणे हत्वा मनो हत्वा गतः। मनश्चित्तमित्यर्थः। पुरोऽस्तं चेति पुरस् इत्यग्रार्थे सान्तमव्ययम्,
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy