SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ५८६ कातन्त्रव्याकरणम् दीर्घादिषु कृतेषु प्रणम्येत्यादीनि न सिध्यन्ति। न च 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परिक ३३) इति न्यायात्। एवं चेत् तर्हि भाविग्रहणं किमर्थम्, यपि च "अदो जग्धिः " (४।१।८२) इत्यत्र यग्रहणमन्तरङ्गं भविष्यतीति? सत्यम्, धुट्यगुणे जग्धौ सिद्धे यपि चेति यदाह तज्ज्ञापयत्याचार्य:- दीर्घादीन् बहिरङ्गो यब बाधत इति। तथा च तत्र स्वमनसाधनार्थं परमतमाह- तथा चति। परो व्रते जग्धिरपि यत् तत् कस्मात् सिद्धम् “अदस्ति किति'' (अ० २।४।३६) विधानात्। क्त्वेति ककारः सुखप्रतिपत्त्यर्थः, पकारस्तागमार्थ:। आर्यावन्धेनोदाहरणं क्रमेण दर्शयति- अनुकरणमित्यादि। 'खाडिति कृत्वा निष्ठीवति' इतिशब्देन व्यवधानान्न स्यात्। अलं सदसदिति। भूषणेऽलमादरे सत्. अनादरेऽसदिति यथासङ्ख्यम्। अन्तरग्रहणेऽर्थे ग्रहणं स्वीकरणं तस्मादन्यद् अग्रहणम्। 'कणे-मनसि' सप्तम्यन्तप्रतिरूपको तृप्तावथें। अग्रार्थे पुरस्शब्द:, अनुपलब्ध्यथेऽस्तंशब्दः। अच्छशब्दोऽभिशब्दार्थे गत्यर्थैर्वदिना च। अनुपदेशो बुद्ध्या परामर्शनम्, अदस्शब्दोऽव्ययमेवात्र न त्यदादिपठित इति। अन्तद्धांविति। अन्तर्द्धिर्व्यवधानम्। तत्र तिरस्, ‘उपाजे- अन्वाजे' शब्दौ विभक्तिप्रतिरूपको। दुर्बलस्य सामर्थ्याधाने वर्तेते। साक्षात्प्रभृतय इह गृह्यन्ते। क्त्वान्तानां नित्यसमासोऽभिधानान्। अथ सह तिरसा वर्तन्ते इति सतिरांसि। उपाजे-अन्वाजे-साक्षात्प्रभृतीनि कृतद्वन्द्वानि करोतिना वेत्यर्थः। साक्षात्, मिथ्या, चिन्ता, भद्रा, रोचना, अमा, आस्था, अस्ना, अद्धा, प्राजर्या, प्राजरुहा, बीजा , बीजरुह, प्रवाहा, समुसऱ्या, लवणमुष्णं च, शीतम् उदकम् , आर्द्रम्, लवणमादय: स्वभावान्मान्ता:, अग्लो, वशे, विकपने, विहसने, प्रकपणे, प्रहसने सप्तम्यन्तप्रतिरूपका:, एते प्रादस्-आविस्-नमस्-मध्ये-पदे-निवचने-शब्दाश्च सप्तम्यन्तरूपका इति साक्षात्प्रभृतीनि। वचनानामभावो निवचने, अत्याधानमुपश्लेषस्ततोऽन्यत्रेति हस्तिन: पदे कृत्वा शिरः शेते। आर्यासमाप्तिं यावत् कृञोऽधिकारः। उरसि मनसीति। उरसि कृत्वा अभ्युपगम्येत्यर्थः, मनसि कृत्वा निश्चित्येत्यर्थः। अनत्याधान इति किम्? उरसि कृत्वा पाणिं शेते। नित्यं हस्ते पाणावुद्वाहे इति नित्यशब्दो वानिवृत्त्यर्थः। उद्वाहो दारकर्म। प्राध्वमव्ययमानुकूल्ये वर्तते तदेवानुकूल्यं बन्धननिमित्तं यदा भवति. इह न स्यात् प्राध्वं कृत्वा शकटं शकटस्यानुकूल्यम् अध्वनिबन्धनहेतुकम्। उपनिषच्छब्द औपम्ये जीविकाशब्दश्चौपम्ये इत्यर्थः। उपनिषदमिव जीविकामिव कृत्वेत्यर्थः। एते पूर्वोक्ता अव्ययाः सर्वे त्याद्यन्तात् कृदन्ताच्च यथानिर्दिष्टाः पूर्वे वेदितव्याः। समस्ताश्च कृद्भिरितीह व्यवस्थाया अभिधानत इति।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy