________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः १३४०. समासे भाविन्यनञः क्त्वो यप् [४।६।५५] [सूत्रार्थ]
नभिन्न अव्यय का क्त्वाप्रत्ययान्त शब्द के साथ समास होने पर क्त्वा प्रत्यय के स्थान में 'यप्' आदेश होता है।।१३४०।
[दु० वृ०]
नोऽन्यस्याव्ययस्य क्तान्तेनैव समासे भाविनि क्त्वाप्रत्ययस्य यबादेशो भवति। प्रणम्य, आपृच्छ्य, प्रदीव्य, अपेत्य, अधीत्य। भाविग्रहणमुपदेशयबर्थम्, तेन पञ्चमोपधाप्रभृतीनां दीर्घादयो न स्युः, तोऽन्तश्च स्यात्। खाट्कृत्य, कन्यामलंकृत्य, सत्कृत्य, असत्कृत्य, अन्तर्हत्य, कणेहत्य, मनोहत्य? पय: पिबति, यावत् पिबति तावत् तृप्त इत्यर्थः। पुरस्कृत्य, अस्तंकृत्य, अच्छगत्य, अच्छत्रज्य, अच्छोद्य, अदः . कृत्य चिन्तयति, तिरोभूय, तिरस्कृत्य, उपाजेकृत्य, अन्वाजेकृत्य, साक्षात्कृत्य, मध्येकृत्य, पदेकृत्य, निवचनेकृत्य, उरसिकृत्य, मनसिकृत्य, हस्तेकृत्य, पाणौकृत्य, प्राध्वंकृत्य, उपनिषत्कृत्य, जीविकाकृत्य।
__ अनुकरणं च कृता भूषणादरानादरेष्वलं सदसत्। अग्रहणेऽन्तस्तृप्तो च कणेमनसी पुरोऽस्तं च। अच्छ च गत्यर्थवदिभिरनुपदेशेऽदस् तिरोऽन्तौ तिरस् उपाजेऽन्वाजे। साक्षात्प्रभृतीनि च कृञा वा। मध्ये पदे निवचने। अनत्याधान उरसि मनसि। नित्यं हस्ते पाणावुद्वाहे बन्धने प्राध्वम्। उपनिषदौपम्ये जीविका च पूर्वे समस्ताश्च। समास इति किम्? तिरः कृत्वा, उपाजे कृत्वा। अनत्र इति किम्? अकृत्वा। पर्युदासोऽयम्। तेन ससंख्यान स्यात्-परमकृत्वा।।१३४०।
[दु० टी०]
समासे०। नोऽन्यस्येत्यादि। पर्युदासोऽयमिति वक्ष्यति 'नजिव युक्तमन्यसदशाधिकरणे तथा ह्यर्थगतिः' (का० परि० ४९) इत्यव्ययो गम्यते। ननु समासे क्त्वेति वचनात् तदन्तेन धातुना गम्यते इत्याह- क्त्वान्तेनेत्यादि। समास इति विषयसप्तमी न भावसप्तमी, भविष्यति हि भाविनीति वचनात्। अथवा नञोऽन्यस्य समास इति विषये क्त्वा यब् भवति। स्नात्वा कालकः, पीत्वा स्थिरक इति वाक्यम, तथा स्नात्वा कालको भवति, पीत्वा स्थिरको भवतीति गम्यमानत्वाद् भवतिर्न प्रयुज्यते कुतश्चोद्यं पूर्वस्यापि स्यादिति। अथवा अनञ इति पञ्चमी नोऽन्यस्मादव्ययात् परस्य क्त्वो यबिति वचनाद् धातुव्यवधानेऽपि भवति। कश्चिद् आहसमास इति। निर्धारणे सप्तमी जातावेकवचनम्, तदा धात्वपेक्षया बहुत्वमस्तीति न निर्धारणं विरुध्यते सूत्रत्वाद् बहुवचनस्य स्थाने एकवचनं वा समासेषु मध्ये क्त्वान्तस्य यबादेशो निर्दिष्टस्य क्त्वाप्रत्ययस्य कृदधिकारात् कृञः क्त्वेति, सूत्रत्वादेव षष्ठ्यर्थे सप्तम्येकवचनं समासस्य क्त्वान्तस्येत्यर्थस्तदिह न प्रयोजयति भावीत्याद्यन्तरङ्गम्, पुनरेषामकपदाश्रयत्वाद् यबादेशस्य तु बहिरङ्गत्वसमाश्रयत्वात्।