________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५८३
दण्डयोगाद् दण्डः पुरुष इति । अर्शआदित्वाद् वेति । अर्शआदित्वादस्त्यर्थे भुक्तं पीतं वा एषामस्तीति अत्-प्रत्ययो वा । एवं भुक्ता विप्रा ओदनम्, पीता गावो जलम् इत्यपि भवति । यथा कृतपूर्वी कटमिति । देवश्चेदिति । कारणे कार्योपचाराद् यथा 'आयुर्घृतम्' इति। अतोऽतीतें क्तप्रत्ययो न दुष्यतीति ।। १३३८ ।
[क०त०]
क्तोऽधिकरणे०। तद्योगादिति पृथगेवायं सिद्धान्तः । शालिहेतव इति । वृष्ट्यनन्तरकाले शालिसम्पत्त्यभाव इत्युपचारः क्रियते । बहुकालानन्तरं शालिसम्पत्तिसमये प्रयोगे पुनः सुतरां शालयः सम्पन्ना इति सिध्यत्येव । ननु कर्मणोऽविवक्षायामकर्मकत्वादेरेव भविष्यति किं गत्यादिग्रहणेन । न च वक्तव्यम् - पश्चात् कथं कर्मवद्भाव इति कृतपूर्वी कटमित्यादौ पश्चात् कर्मविवक्षाया दृष्टत्वादिति चेत्, नैवम्। यस्मादकर्मकविवक्षायां भावप्रत्यये कृते सति अकर्मकविवक्षाया युक्तत्वम्, भावे धात्वर्थकृता व्याप्तिरस्तीति न्यायात् । न त्वधिकरणादौ अकर्मकविषयप्रत्यये कर्मविवक्षा युक्तिमतीति। अन्यथा अकर्मकग्रहणस्य व्यावृत्तिरेव कुत्र भविष्यतीति। टीकायामन्य आह— इति तन्मते पारिभाषिकोऽयमर्थ इति ।। १३३८ ।
[समीक्षा]
अकर्मक आदि धातुओं से अधिकरण आदि अर्थों में 'क्त' प्रत्यय का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः” (अ० ३।४।७६ ) । इस प्रकार उभयत्र समानता है।
-
[विशेष वचन ]
१. अचलात्मकक्रियात्मकत्वाद् ध्रौव्यार्था अकर्मका उच्यन्ते (दु० वृ० ) । २. प्रतिपत्तिरियं गरीयसी (दु० टी० ) |
[रूपसिद्धि]
१. इदमेषाम् आसितम्। आसितम् एभिः । आसितो भवान् । आस् + इट् + क्त+सि। 'आस उपवेशने' (२।४५) धातु से क्रमश: अधिकरण, भाव तथा कर्ता अर्थ में प्रकृत सूत्र द्वारा 'क्त' प्रत्यय, इंडागम तथा विभक्तिकार्य।
२.. इदमेषां यातम्। इह तैर्यातम् । ग्रामस्तैर्यातः । ग्रामस्ते याताः । ' या प्रापणे' (२।१६) धातु से अधिकरण, कर्म, कर्ता अर्थों में 'क्त' प्रत्यय तथा विभक्तिकार्य।
३. इदमेषां भुक्तम्। इह तैर्भुक्त ओदनः । 'भुज्' धातु से अधिकरण-कर्म अर्थों में 'क्त' प्रत्यय तथा विभक्तिकार्य ।
४. इदमेषां पीतम्। इह तैः पीतं पयः । 'पा पाने' (१।२६४) धातु से अधिकरण - कर्म अर्थों में 'क्त' प्रत्यय तथा विभक्तिकार्य ।। १३३८ ।