SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ५८२ कातन्त्रव्याकरणम् तैर्भुक्त ओदन:, पीतं पयः। भोजनार्थात् कर्तर्यपि स्यादिति व्यवहितः पाठः। कथं भुक्ता विप्राः, पीता गाव इति? अन्यत्रापि चेति वचनात् तद्योगाद् अर्शआदित्वाद् वा। देवश्चेद वृष्टः सम्पन्ना: शालय इति शालिहेतवः सम्पन्ना इत्यतीतता।।१३३८। [दु० टी०] तोऽपि०। धौव्यार्था अकर्मकाः। प्रत्यवसानार्था इति। प्रत्यवपूर्वः स्यतिभोजने वर्तते इति भावः। भोजनार्थादित्यादि। भावकर्मणोः कृत्यक्तखलास्तदनन्तरमादिकर्मणि क्तः कर्तरि चेति, तत: श्लिष्शीस्थासवसजनरुहीर्यतिभ्यश्च ततो गत्यर्थाकर्मकाभ्यामधिकरणे च, ततः प्रत्यवसानार्थाच्च। एवं सति क्तध्रौव्यगतिग्रहणं न वक्तव्यं स्यात् , अनन्तरत्वात् तर्हि कर्तरीति। अथोच्यत पृथग्योगकरणमनर्थकं स्यात्, नैवम्। एवमिह प्रकृतं कथं कर्तुपकर्षों निश्चीयते, अत्र चकारकरणात् तर्हि, प्रतिपत्तिरियं गरीयसीति। किञ्च वरमक्षराधिक्यं न पुनर्योगविभागः इति कथमित्यादि। अन्यत्रापि चेति। "कृत्ययुटोऽन्यत्रापि' (४।५।९२) इत्यपिशब्दस्य बहुलार्थत्वात् कर्तरि भवति। अथवा पानं पीतं भोजनं भुक्तं यथा दण्डयोगाद् दण्ड: पुरुष इति। पानं पीतं तदस्यास्तीति वा, ननु अविवक्षितकर्मकत्वात् कर्तरि सिध्यति? नैवम्, अनयोः कर्मणो योगाभावे क्तेऽपि तद्भावाद् यथा कृतपूर्वी कटमिति। यथा विप्रा भूक्ता ओदनम्, पीता गावो जलमिति देवश्चेत्यादि कारणे कायोपचाराद् यथा 'आयुघृतम्' इति न दोषः।।१३३८। [वि०प०] क्तो०। इदमेषामासितमिति। अधिकरणवाचिना क्तान्तेन सम्बन्धविवक्षया षष्ठी। आस्यतेऽस्मिन्निति विगृह्याधिकरणे क्तः। “आदिकर्मणि क्तः कर्तरि च" (४।६।४८) इति, तदनन्तरम् "श्लिष्शीङ्स्थासवसजनरुहजीर्यतिभ्यश्च'' इति, ततः “अधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इति कृते पूर्वस्मिन् गत्यर्थाकर्मकग्रहणम्, इह च क्तग्रहणं कृतं स्यादित्याह- भोजनार्थादित्यादि। यथैव हि ध्रौव्यगत्यर्थाभ्यां कर्तरि च भवति तथा प्रत्यवसानार्थाच्च स्याद् एकयोगत्वात्। अथ प्रत्यवसानार्थाच्चेति पृथग् योगः करिष्यते, ततोऽधिकरणे इह चकाराच्च यथाप्राप्तत्वाद् भावकर्मणोरपि चेत् 'वरमक्षराधिक्यं न पुनर्योगविभागः' इति। व्यवहित: पाठ इति “दाशगोनो सम्प्रदाने' (४।६।५०) इत्यादिभिस्त्रिभियोगैर्व्यवहितेऽस्य सूत्रस्य पाठ इत्यर्थः। अत्र ध्रौव्यार्थेभ्योऽधिकरणभावकर्तृषु गत्यर्थेभ्योऽधिकरणभातकर्तृकर्मसु प्रत्यवसानार्थेभ्योऽधिकरणभावकर्मसु क्तो दर्शित:, यथाप्राप्तं चेति वचनात्। कथमिति। "कृत्ययुटोऽन्यत्रापि च'' (४।५।९२) इत्यपिशब्दस्य बहुलार्थत्वात्। भुञ्जते स्म, पिबन्ति स्मेति कर्तर्यपि भवति। तद्योगादिति। अथवा भोजनं भुक्तम्, पानं पीतमिति भाव एव प्रत्ययः। भुक्तयोगात् पीतयोगाच्च विप्रा गावश्च भुक्ताः पीता उच्यन्ते। यथा
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy