________________
५७८
कातन्त्रव्याकरणम्
प्राप्तमनेन। अकर्मकेभ्यः- शयिता भवान्, शयितं भवताः शिनषादयः सोपसर्गाः सकर्मकाः। श्लिष् आलिङ्गनार्थः। आश्लिष्टो गरुं भवान्, आश्लिष्टो गर्भवता। अधिशयितः खट्वां भवान्, अधिशयिता खट्वा भवता। उपस्थितो गुरुं भवान्, उपस्थितो गुरुर्भवता, उपासितो गुरुं भवान्, उपासितो गुरुर्भवता। वस निवामार्थ:अनूषितो गुरुं भवान्, अनूषितो गुरुर्भवता। अनुजातो माणवको माणविकाम्, अनुजाना माणविका माणवकम्। आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता। अनुजीर्णो वृषली भवान्, अनुजीर्णा वृषली भवता।।१३३४।
[दु० टी०]
गत्यर्था०। श्लिषादीनामकर्मकत्वात् सिध्यति, किमेषां ग्रहणेनेत्याहश्लिषादय इति। 'श्रिषु श्लिषु प्रषु प्लुषु उष दाहे' (१।२२९) इत्यस्य न ग्रहणम्, ‘वस आच्छादने' (२।४७) इत्यस्य च न ग्रहणम् अनभिधानात्। 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति 'लुग्विकरणालुविकरणयोरलुगविकरणस्य' (व्या० परि० ४२) इत्यन्ये। 'जृष् सृष् वयोहानौ' (३।१८) इति दिवादी यना निर्देशं न प्रयोजयति, अर्थस्याभेदादिति चिन्त्यमेतत्।।१३३४।
[वि०प०]
गत्यर्था०। श्लिषादीनामकर्मकत्वादेव सिध्यति किमुपादानमित्याह- श्लिषादय इत्यादि। वसेर्यजादित्वात् सम्प्रसारणे "शासिवसिघसीनां च' (३।८।२७) इति षत्वम्। जीर्यतीति यना निर्देशात् 'जृष् सृष् वयोहानौ' (३।१८) इति देवादिकस्य परिग्रहः। 'जु वयोहानौ' (८।२०) इति क्रैयादिकस्य निरास:। इदं च फलशून्यम्, अर्थाभेदादिति लक्ष्यते।।१३३४।
[क० त०]
गत्यर्था०। श्लिषादय इति। उपसर्गाभावे श्लिष्यति कामपीति जयदेवे अन्तर्भूतेनर्थतया सकर्मकत्वात्। प्राप्येत्यादि। गम्यमानक्रियायोगाद् वा। अनुजात इति। अनुपूर्वो जनिस्तत्पूर्वीकरणपूर्वके जन्मनि सकर्मकः। अनूषितः इत्यत्र इट, पूजापूर्वकनिरासोऽर्थः। अनुजीर्ण इत्यत्राकर्षणपूर्वकवयोहानिरित्यर्थः।।१३३४।
[समीक्षा] __गत्यर्थक इत्यादि धातुओं से 'क्त' प्रत्यय का विधान कर्ता- कर्म तथा भाव अर्थ में दोनों ही आचार्यों द्वारा किया गया है। पाणिनि का सूत्र है- “गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहार्यतिभ्यश्च'' (अ०३।४।७२)। अत: उभयत्र समानता है।
[विशेष वचन] १. श्लिषादय: सोपसर्गाः सकर्मका: (दु०वृ०)। २. इदं च फलशून्यम्, अर्थाभदात् (वि०प०)।