________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५७७
[क ० त०]
आदि०। आदिक्रिया च क्रियायाः प्रथमोऽवयवः। तत्र प्राद्यवच्छेदेन धात्र्वर्तत इति भावनीयः। तत् कथं भविष्यति वर्तत इत्याहितविशेषे कटे कटशब्दतादर्थ्यादिति वृत्तौ वक्तुं युज्यत इति भावः। न झयमित्यादि। अयं वस्तुगत्या यो भविष्यदर्थ एव कट: स एव नासावाहितविशेष इत्यर्थः। नापीति। अयं भविष्यति न कटो न कटार्थः। एतेन तादादिति यदुक्तं तदपि न सङ्गच्छते। न चेति । अत्राप्ययमित्यनेन भविष्यत्कटपरामर्शः। अत एव नासावतीतः। अतः प्रकृत इत्यनेन सामानाधिकरण्यमपि नोपपद्यते इति भावः। सत्यमित्यादि सुगमम्।
[पाठान्तरम्
टीकायामादिविशेषणमनर्थकं स्यादिति नहि कर्मणि आद्यवयवे कर्मत्वमस्ति। क्रियायास्तु आद्यवयवेति क्रियात्वमस्तीति आदेः कर्मत्वं तत्राविरुद्धम् अकर्मकसमूहो यदादिकर्म तस्मिन्नित्यस्तु वाक्यार्थ इति चेत्, न। भावकर्मणोरित्यनेन सिद्धत्वात्। किञ्च कर्मशब्दः क्रियावचन एव गृह्यते श्रुतत्वात्? सत्यम्, प्रतिपत्तिरित्यादि। आदौ कर्तरीत्युक्ते सामानाधिकरण्यप्रतीतिरपि स्यादिति भावः]||१३३३।
[समीक्षा
भूतकालिक आदिक्रियाक्षण में जो 'क्त' प्रत्यय विहित है, उसे कर्ता तथा यथासम्भव कर्म अर्थ में दोनों ही आचार्यों ने निर्दिष्ट किया है। पाणिनि का सूत्र है"आदिकर्मणि क्तः कर्तरि च” (अ० ३।४।७१)। इस प्रकार उभयत्र पूर्ण समानता है।
[रूपसिद्धि]
१. प्रकृतः कटं भवान्। प्र+कृ+सि। प्रकृत सूत्र के निर्देशानुसार यहाँ 'क्त' प्रत्यय कर्तृवाच्य में हुआ है।
२-४. प्रकृतः कटो भवता। यहाँ क्तप्रत्यय कर्मवाच्य में विहित है। प्रसुप्तो भवान्। 'क्त' प्रत्यय कर्तृवाच्य में है। प्रसुप्तं भवता। क्त-प्रत्यय कर्मवाच्य में हुआ है।।१३३३। १३३४. गत्यर्थाकर्मकश्लिष्शीङ्स्थासवसजनरुह
जीर्यतिभ्यश्च [४।६।४९] [सूत्रार्थ]
गत्यर्थक, अकर्मक, श्लिष्, शीङ्, स्था, आस्, वस्, जन्, रुह एवं 'जृ' धातु से 'क्त' प्रत्यय कर्तृवाच्य, भाववाच्य तथा कर्मवाच्य में होता है।।१३३४।
[दु० वृ०]
गत्यर्थेभ्योऽकर्मकेभ्य: श्लिषादिभ्यश्च कर्तरि तो भवति यथाप्राप्तं च। गतो ग्राम भंवान्, गतो ग्रामो भवता। प्राप्तो ग्रामं भवान्, प्राप्तो ग्रामो भवता। गतमनेन,