________________
५७६
कातन्त्रव्याकरणम्
[दु० वृ०]
आदिक्रियायां यः क्तो विहितः सः कर्तरि वेदितव्यश्चकाराद् यथाप्राप्तं च। प्रकृतः कटं भवान्, प्रकृतः कटो भवता। प्रसुप्तो भवान्, प्रसुप्तं भवता। प्रशब्द आदिक्रियाद्योतकः। बहूनां क्रियाक्षणानामादिक्रियाक्षणोऽतीत इति भविष्यति कटे कटशब्दस्तादर्थ्यात्।। १३३३।
[दु० टी०]
आदि०। आदिश्चासौ कर्म चेति आदिकर्मेति विग्रहः। आदिक्रियायामिति। नात्र कर्मशब्द: साधनार्थो युज्यते तस्यैकत्वादादिविशेषणमनर्थकं स्यादिन्याहबहूनामित्यादि। आद्यो य: क्रियाक्षणः स निष्पन्नत्वादतीत: स्यादिति “निष्ठा'' (४/३/ ९३) इत्यनेन तो युज्यते आदिकर्मणीति कर्तृविशेषणं चैतत्। आदिकर्मविषये कर्तरीति धातोर्विशेषणम्। आदिक्रियायामिति। यद्येवमादिग्रहणमेवास्तां किं कर्मग्रहणेन। आदिविषये कर्तरि आदिविषये धातोरर्थात् क्रियैवादि: प्रतीयते? सत्यम्, प्रतिपत्तिरियं गरीयसीति। उक्तार्थानामप्रयोगोऽनुक्तानामप्रयोग इति यथायोगं द्वितीया तृतीया च दर्शिता। अथ आदिक्रियाक्षणे कटोऽनभिनिष्पन्न एव करणीभूतवीरणादय एव तदानी सन्तीति। न च त एव तदवस्थाः, कथं 'प्रकृतः कटः' इति भूतकालाभिधायिना प्रकृतशब्देन कटशब्दस्य सामानाधिकरप्यम् आद्येन क्रियाक्षणेन वीरणानां यो विशेष: आहितस्तत्र कटशब्दो वर्तत इत्याह- भविष्यतीत्यादि।।१३३३। [वि०प०]
आदि०। कर्मशब्द: क्रियावचन:, न तु “यत् क्रियते तत् कर्म'' (२।४।१३) इति कारकवचन:, तस्य कटादेरेकत्वादादिविशेषणानर्थक्यप्रसङ्गाद् बहुषु क्रियाक्षणेषु आदिविशेषणमर्थवद भवतीत्याह- आदिक्रियायामिति। यथाप्राप्तं चेति। भावे कर्मणि चेत्यर्थः। बहूनामित्यादि। एतेन “निष्ठा'' (४।३।९३) इत्यनेनैवातीते क्तप्रत्यय:, न तु यत्नान्तरं विधेयमिति दर्शितम्। आद्यस्य हि क्रियाक्षणस्य परिनिष्पन्नत्वादतीतत्वमस्तीति। ननु चादिभूतक्रियाक्षणे कटोऽपरिनिष्पन्न एव कटकरणभूता वीरणादय एव तदानीं सन्तीति कथं 'प्रकृत: कटः' इत्यतीतक्रियाक्षणाभिधायिना प्रकृतशब्देन कटशब्दस्य सामानाधिकरण्यमिति? सत्यम्, आद्येन क्रियाक्षणेन यो वीरणेष्वाहितो विशेषस्तत्र कटशब्दो वर्तते तादात्, स चातीत इत्याह- भविष्यतीति। नन् यदि आद्यक्रियाक्षणाहिते विशेषे कटशब्दस्तत् कथं भविष्यति वर्तत इति? न हि अयमेवाहितो विशेषः, नाप्ययं कटार्थः। न चायमतीत:, येन सामानाधिकरण्यम्? सत्यम्। विषयसप्तमीयम्। तत्रायमर्थो भविष्यति। कटविषये योऽसौ विशेषस्तत्र कटशब्दस्तादर्थ्यात् कटार्थत्वादस्येति।।१३३३।