SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः ५७३ युज्यत इति। ख्युडाादेवाक्यानि तु साक्षानिर्दिष्टार्थत्वान्न साकाङ्क्षाणि, न हि परिपूर्णस्याकाङ्क्षा न्याय्येति न तेषां शेष इत्याह- ख्युट इत्यादि। यदि पुनरियं लिङ्गवती स्यात् तदा भिन्नैर्वाक्यैर्विहितानां प्रत्ययानामर्थविधानं स्यात्। तथा च सति तृजादीनामिव ख्युडादीनामपि करणे कर्तरि च प्रसङ्गः स्यात्। एकस्था हि लिङ्गवती सकलं शास्त्रमभिज्वलयतीति।।१३३१। [क० त०] कर्तरि०। अर्थज्ञानं करोतीति कृत्। कृञः कर्तरि क्विप्, अथ अनियमे नियमकारिणी परिभाषा, तत् कथं ख्युटः प्रयोगे प्रवर्तिष्यते करण इत्युक्ते (परिभाषेति करण-) नियमस्य विद्यमानत्वात्? सत्यम्। न तत् सूत्रं किन्तर्हि युक्तिप्राप्तं सा पुनरेषैव युक्तिः, यत: साकाङ्क्षषु प्रवर्तते परिभाषा, न चाकाक्षेषु तेषामाकाङ्क्षायाः पूर्णत्वाद् वेत्यनया युक्या अनियमे नियमकारिणी परिभाषा न तु नियम इति साध्वेवोक्तम्, वृत्ती ख्युट इति, तदेव पूर्वपक्षसिद्धान्तायां स्फुटीकर्तुं पञ्जीकारोऽप्याह- तीत्यादि। विशेषाभावादिति। साकाक्षेषु परिभाषा प्रवर्तते न चाकाङ्केष्विति विशेषाभावादित्यर्थः। तदयुक्तमित्यादिना च स एव विशेष: प्रतिपादित इत्यर्थः। कर्तरि ख्युटः प्रसङ्गः स्यादिति । ननु कथमयं प्रसङ्ग इति अनियमे नियमकारिणी परिभाषेति न्यायस्य सत्त्वात्? सत्यम् ,लिङ्गवतीपक्षे न्यायोऽयं नास्तीति कश्चित्। नियमेऽनियमे वा लिङ्गवत्त्वमादाय प्रवर्तत इति अन्यः। [पाठान्तरम्- टीकायां गुपादिभ्य इत्यादि। तर्हि कर्तर्यप्राप्तौ विधिरेवायं स्यान्न परिभाषा? सत्यम्। कृत्शब्दस्यान्वर्थबलात् सामान्यकारके प्राप्नोति अनिर्दिष्टकालार्थत्वाच्च स्वार्थेऽपि च, अत: कर्तर्यपि स्यात् ततश्च परिभाषा भवत्येव। यत्त स्वार्थे प्राप्ते इत्युक्तम्, तत्र स्वार्थेऽपीति अपिशब्दोऽध्याहर्तव्यः। यद् वा कृदित्यस्यार्थद्वयमवलम्ब्य स्वाथोंऽपि प्राप्तः इति गदितः। यस्य निर्दिष्टार्थे भवति घादिविधायकवाक्ये भावग्रहणं व्यर्थम्। अथ “अकर्तरि च कारके " (४।५।४) इत्यस्य विद्यमानत्वात् कथम् अनिर्दिष्टार्थता। नैवम्, सृ स्थिरेत्यादिविशेषविधानमवश्यं कर्तव्यम्, ततश्च पदरुजेत्यपनीय घञिति पृथग् योगः क्रियताम्। पृथग्योगबलात् स्वार्थे स्यात्, स च स्वार्थो भाव एवेति किं भावग्रहणेनेत्याह-घञादीनामिति। युक्तमिति विशेषभावार्थम्, न तु स्वार्थमात्रार्थमिति भावः, तर्हि शन्तृङादिविधायकानामयं विशेष: स्यादित्याह-सत्यपीत्यादि। निराकाङ्क्षत्वात् तेषामयं शेष इति सङ्कलितार्थ:]||१३३१। [समीक्षा] जिन कृत्प्रत्ययों के अर्थ सूत्रों में साक्षात् निर्दिष्ट नहीं हैं, उन सभी प्रत्ययों का विधान कर्ता अर्थ में आचार्य शर्ववर्मा तथा पाणिनि दोनों के ही द्वारा किया गया है। पाणिनि का सूत्र है- “कर्तरि कृत् '' (अ० ३।४।६७)। इस प्रकार उभयत्र समानता ही है।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy