SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५७२ कातन्त्रव्याकरणम् [रूपसिद्धि] १- ६. मुखतो भावम्, मुखतोभूय, मुखतो भूत्वा आस्ते । तूष्णीम्भावम्, तूष्णीम्भूय तूष्णीम् भूत्वा आस्ते । 'मुखतः- तूष्णीम्' शब्दों के उपपद में रहने पर 'भू' धातु से प्रकृत सूत्र द्वारा 'णम् -क्त्वा' प्रत्यय, क्त्वा का समास होने पर यवादेश, ऊकार को वृद्धि, आवादेश तथा विभक्तिकार्य ।। १३३०| १३३१. कर्तरि कृतः [४।६।३१] [सूत्रार्थ] कर्ता कारक अर्थ में कृत्संज्ञक प्रत्यय होते हैं ।। १३३१ । [दु०वृ० ] पच: . कर्तरि कारके कृत्संज्ञकाः प्रत्यया वेदितव्याः । करोतीति कर्ता, कारक:, नन्दनः। निराकाङ्क्षेषु वाक्येषु परिभाषेयं शेषभूता । ख्युटः करणेनाघ्रातत्वान्न पाक्षिकी प्रवृत्तिः ।। १३३१ । [दु०टी० ] कर्तरि०। गुपादिभ्य आयवदनिर्दिष्टकालार्थास्तृजादयः स्वार्थे प्राप्ताः कर्तयेव यथा स्युरिति वचनम्। घञादीनां वाच्यः सिद्धताख्यभावस्त्यादीनां च साध्यताख्य इति तत्र भावग्रहणं युक्तम्। नासौ स्वार्थ इति निराकाङ्क्षेष्वित्यादि । एतेन तेषामस्य चैकवाक्यतामाह- ख्युडादिवाक्यानि नार्थान्तराकाङ्क्षाणि भवन्ति, करणादीनामर्थानां नामाख्याते निर्देशान्न तेषामयं शेष इति यदि पुनरियं लिङ्गवती स्याद् यथा अनेन तृजादीनामन्वाख्यायते तथा ख्युडादीनामपि विशेषाभावात् तेऽपि कर्तरि करणादिषु च स्युर्वचनसामर्थ्यात् पर्यायेणेत्यनिष्टरूपं स्यात्। सत्यपि शन्तृङादीनां सार्वधातुकत्वे परोक्षातिदेशे कर्तृकर्मभावानुयोगान्निराकाङ्क्षाणां विधानं यथासम्बन्धं न विरुध्यते परस्मैपदात्मनेपदभावेनेति ।। १३३१ । [वि०५०] कर्तरि०। निराकाङ्क्षेष्विति । निश्चिता आकाङ्क्षा येषु तानि निराकाङ्क्षाणि तेषु निराकाङ्क्षेष्वित्यर्थः। शेषभूतेति । शेषं भूता शेषभूता, अवयवत्वं प्राप्तेत्यर्थः । एतेन विध्यङ्गशेषभूतेयं न लिङ्गवतीति दर्शितम् । सा हि प्रत्येकं प्रत्ययविधिषूपप्रतिष्ठमाना तैः सहैकवाक्यतामापद्यते- "वुण्तृचौ कर्तरि अच् पचादिभ्यश्च" (४।२।४७,४८) कर्तरीति । तर्हि ख्युडादिवाक्यानामप्ययं शेषः स्यात्, विशेषाभावात् । तत: करणे पक्षे कर्तरि च ख्युट् स्यात् ? तदयुक्तम्, अनाकाङ्क्षत्वात् तेषाम् । यानि हि वाक्यानि असमाप्त्यर्थतयाऽर्थमाकाङ्क्षन्ति तेषामेवायं शेष इति । तथाहि वुण्तृचौ भवतः इत्युक्तेऽर्थविशेषाकाङ्क्षा जायते कस्मिन्नर्थे तौ भवतः इति तृजादिवाक्यानामेवायं शेषो
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy