SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः ५७१ नापीह णमन्तस्याव्ययत्वे नानाकारंतरामित्यादि तरांतमामोरभिधानं दृश्यते। न च पूर्वकालता प्रतीयते, अन्यथाकारंतराम् इत्यादिषु तरांतमांप्रत्ययौ दृश्येते एव। तथा च तत्रोक्तं क्त्वा पूर्वकालेऽस्त्येव, पक्षे समासोऽपि यथाभिधानं सिद्ध एवेत्याह- नाम्नाम् इत्यादि। यदप्युक्तं 'च्यर्थ' इति किम्? 'नानाकृत्वा काष्ठानि गतः' इति। अत्र प्रकृत्यवस्थानं विवक्षितम् इत्यच्च्यर्थता। तत्रापि समाधिमाह- सापेक्षत्वादिति। अपेक्ष्यन्ते काष्ठादीनीति भावः। एवमिति। तथा धार्थेऽपि द्विधाकारम्, द्विधाकृत्य, द्विधा कृत्वा। द्वैधंकारम् , द्वैधंकृत्य, द्वैधं कृत्वा। द्वेधाकारम्, द्वेधाकृत्य, द्वेधा कृत्वा, ऐकध्यंकारम्, ऐकध्यंकृत्य, ऐकध्यं कृत्वा। एवं भवतेरपि द्विधाभावमित्यादि। तथेति। अनूच्यानुलोम्य इति न वक्तव्यमित्यर्थः। आनुलोम्यमनुकूलता, परचित्ताराधनमिति यावत्।।१३३०। [क० त०] भुवः। पञ्ज्यां नाप्रत्ययसहचरित इति तदर्थवाचकत्वमेवात्र साहचर्यम्, वयं तु ब्रूम इति जिनेन्द्रबुद्धिवचनमिदम्। [पाठान्तरम् टीकायां कश्चिद् आह— निरनुबन्धग्रहण इत्युक्तत्वादिति केचित्। जिनेन्द्रबुद्धिस्त्वाह इति पूर्वग्रन्थ इत्याह- प्रत्ययग्रहणादिति। तथा च -‘हिरुङ् नाना च वर्जने' इत्यमरः। ननु धात्वर्थ इत्यत्र धाप्रत्ययस्य प्रकार एवार्थः, नार्थ इत्यत्र नाप्रत्ययस्य कीदृशोऽर्थः? सत्यम्, नाप्रत्यय: प्रकृत्यर्थ एव क्रियते अनिर्दिष्टार्थत्वात्। यद्येवं विशब्दस्य विगतार्थः नाप्रत्ययेन तदर्थस्य द्योतितत्वाद् विनाशब्दोऽप्यभाव इत्यर्थः, नानाशब्दोऽप्यभावार्थः कथन्न स्यात् कृत्र एव हि नानेति? सत्यम्, स्वभावादेवैकप्रकाराभाव उच्यते, तर्हि असहायार्थत्वादिति न सच्छते? सत्यम्, असहायशब्दस्य सहायभाव एवार्थ: नानाशब्दस्यापि एकाभाव इत्यभावमात्रमवलम्ब्य सादृश्यं नास्तीत्युक्तम्, असहायार्थत्वादिति कश्चित् पाठस्तदा विद्यमानार्थत्वादित्यर्थः। 'हिरुङ् नाना च वर्जने' इत्यमरेण यदुक्तं तद्भेदमवलम्ब्येति स्थितम्। टीकायां क्त्वाणमौ स्यातामिति प्रत्ययग्रहणाभावे स्यातामित्यर्थः]||१३३०। [समीक्षा] 'तूष्णींभावम्' इत्यादि शब्दों की सिद्धि उक्त की तरह ‘णम्-णमुल्-क्त्वा' प्रत्ययों से की गई है। पाणिनि क सूत्र है- "तृष्णीमि भुवः' (अ० ३।४।६३)। कातन्त्रव्याख्याकारों ने जो अन्य शब्दरूप सिद्ध किए हैं, उनके लिए पाणिनि ने "नाधार्थप्रत्यये च्यर्थे, अन्वच्यानुलोम्ये' (अ० ३।४।६२,६४) ये दो सूत्रे बनाए हैं। प्रकृत विषय की दाल से उभयत्र प्रायः समानता ही है।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy