SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ५७० कातन्त्रव्याकरणम् विनाकृत्य, विनाकृत्वा गत इति? क्रियाविशेषणमेव। नाम्नां युक्तार्थत्वात्। समासोऽपि सिद्ध एव। 'नाना कृत्वा काष्ठानि गतः' इति सापेक्षत्वान्न समासः। एवं नानाभावम्, नानाभूय, नाना भूत्वा गत इति। तथा अन्वग्भावम्, अन्वग्भूय, अन्वग भूत्वा गत इति। आनुकूल्ये एव समासाभिधानम्, तेन अन्वग् भूत्वा तिष्ठति शत्रुः ।। १३३ ०। [दु० टी०] भुवः। ननूपपदयोर्णम्, क्त्वाप्रत्ययश्च न कथं यथासङ्ख्यमिति? सत्यम्, चकारसम्बन्धाद् वाक्यद्वयं ततो वैषम्यमिति भावः। नामार्थप्रत्यये च्यर्थे कृत्रो भुवश्च वक्तव्यम्, नाप्रत्ययसहचरितो ना इत्युक्त; धाप्रत्ययसहचरितश्च धा इति। नाधावों यस्य प्रत्ययस्य स नाधार्थः, विनञ्भ्यां नानाणाविति संख्यायाः प्रकारे धा, द्वित्रिभ्यां धमुणेधा च, एकाद् धमुण् वेति प्रत्ययग्रहणं हिरुक्पृथक्शब्दयोर्निवृत्त्यर्थं 'हिरुक् कृत्वा गतः' इति असहायार्थत्वान्नाधार्थत्वमस्तीति क्त्वाणमौ स्याताम्, न नानाकृत्वा काष्ठानि गतः इति च्यों नास्ति, प्रकृत्यवस्थाया अविवक्षितत्वान्नाप्रत्यय एव, न तदर्थमर्थग्रहणमुक्तम्। कश्चित् 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति सानुबन्धकार्थं विज्ञायते न वक्तव्यमिति मनसिकृत्य नोदयति कथमित्यादि। एवं द्विधाकारमिति। परिहारमाह- क्रियाविशेषणमेवेति। द्विधाकारो यस्मिन् करणे भवने चेत्यर्थः। नाम्नां युक्तार्थत्वात् समास इति। विभाषया समासोऽपि यथाभिधानमित्यर्थः। अव्ययत्वात् तरांतमांप्रत्ययो नाभिधीयते, न हि विनाकारम् इत्याद्ययुक्ता दृश्यत, न च पूर्वकालता अन्यथाकारमित्यादिषु च दृश्यते। यथा 'अन्यथाकारंतरां भुङ्क्त, अन्यथाकारंतमां भुङ्क्ते' सूत्रकारवचनात्। तथेत्यादि। अनूच्यानुलोम्य इति न वक्तव्यमित्यर्थः। अन्वग्भावं तिष्ठति। अनुचरः सन् तिष्ठतीत्यर्थः।।१३३०।। [वि०प०] भुवः। द्वयोरुपपदयोाभ्यां प्रत्ययाभ्यां न यथासङ्ख्यम्। चकारसम्बन्धाद् वाक्यद्वयकल्पनया वैषम्यस्य विवक्षितत्वात्। कथमित्यादि। नाधार्थप्रत्यये च्व्यर्थे इति वक्तव्यम्। नाप्रत्ययेन सहचरितोऽर्थो ना, धाप्रत्ययेन सहचरितोऽर्थो धा। नाधावर्थो यस्य स नाधार्थः प्रत्ययः। अर्थशब्द: प्रत्येकमभिसम्बध्यते, नार्थो धार्थश्च य: प्रत्ययः, तदन्ते घ्यर्थे उपपदे कृञ्भुवोः क्त्वाणमाविति। अत्र नानाणौ नार्थी। यदाह ‘विनञ्भ्यां नानाणी' इति। अत्र णकारस्यानुबन्धत्वादेकरूप एव प्रत्यय इति। नैतदर्थमर्थग्रहणं किन्तर्हि धार्थार्थम्। धार्था हि बहवः प्रत्यया इति जिनेन्द्रबुद्धिस्त्वाह-वयं तु ब्रूम:- नार्थमप्यर्थग्रहणं कर्तव्यम्। अन्यथा 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति नाणो ग्रहणं न स्यादित्यभिप्रायः। धार्थाश्चत्वारः प्रत्ययाः। तद् यथासंख्यायाः प्रकारे धा, द्वित्रिभ्यां धमणेधा च, एकाद् धमुण वेति। ‘अनानाकृतं नानाकृत्वा भुङ्क्ते, अनानाभूतं नानाभूत्वा गतः' इत्यादिषु व्यर्थो दर्शनीयः। प्रत्ययग्रहणादिह न भवति 'हिरुक् कृत्वा पृथक् गतः' इति-हिरुक्पृथक्शब्दयोरसहायार्थत्वात्रार्थत्वमस्तीति, तदिह न वक्तव्यमित्याह- क्रियेति। नानाकारो यस्मिन् भोजने गमने चेत्यादि, विशेषणमित्यर्थः।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy