________________
५६८
कातन्त्रव्याकरणम्
[रूपसिद्धि
१. ब्राह्मण! पुत्रस्ते जातः, नीचैःकारम्, नीचैःकृत्य, नीचैः कृत्वा आचष्टे। ब्राह्मण! कन्या ते गर्भिणी किन्तर्हि वृषली। उच्चैःकारम्, उच्चैः कृत्य, उच्चैः कृत्वा आचष्टे। 'नीचैः- उच्चैः' के उपपद में रहने पर 'कृ' धातु से ‘णम्-क्त्वा' प्रत्यय, वृद्धि, यबादेश तथा विभक्तिकार्य।।१३२७।
१३२८. तिर्यच्यपवर्गे [४।६।४३] [सूत्रार्थ
अपवर्ग=समाप्ति अर्थ के गम्यमान होने पर 'तिर्यक' शब्द के उपपद में रहते 'कृ' धातु से ‘क्त्वा-णम् प्रत्यय होते हैं।।१३२८।
[दु०वृ०]
तिर्यकशब्दे उपपदे को णम भवति क्त्वा चापवर्गे गम्यमाने तिर्यककारम, तिर्यक्कृत्य, तिर्यक् कृत्वा काष्ठं गतः। समाप्य गत इत्यर्थः। अपवर्ग इति किम्? तिर्यक् कृत्वा काष्ठं गतः।।१३२८।
[दु० टी०]
तिर्यचि०। ननु तिर्यचीति कथं निर्देश: तिर्यङ् तिरश्चिर्भवत्यघुटस्वरे? सत्यम्, शब्दपदार्थकस्येदमनुकरणम्, तेन शब्दान्तरत्वान्न भवति। अथ प्रकृतिवदनुकरणं भवति इति प्रकृतिकार्येण तिरश्च्यादेशेन भवितव्यमिति। नैवम्, अनुक्रियमाणान्तपरिणामाप्रसङ्गात्। यद्यत्र प्रकृतिकार्यं च स्यात्, यादृशमनुक्रियमाणं तिर्यकशब्दस्य रूपं तादृशं न प्रतीयते प्रकृतिवदनुकरणं भवतीत्यस्य तु यदर्थकस्यानुकरणं सोऽस्यावकाश: सर्व एव ह्यनुकरणभूतः शब्दस्वरूपस्यानुकरणम्, एतावांस्तु विशेषः क्वचिच्छब्दपदार्थस्य शब्दरूपस्यानुकरणम्, क्वचिदर्थपदार्थकस्येति।।१३२८।
वि०प०]
तिर्यचि०। अपवर्ग: समाप्तिः। तिर्यक् कृत्वेति। अनृजु=वक्रं कृत्वेत्यर्थः।।१३२८।
[क० त०]
तिर्यचि०। ननु टीकायां तिर्यचीति। ननु कथमिदं देश्यम् 'तिर्यङ् तिरश्चि:' इत्यत्रानव्ययस्य ग्रहणात्? सत्यम्। तिर्यन्चशब्दात् सद्यआद्यत्वादस्तातिस्तस्य लुक्यनुषङ्गलोपे चाव्ययत्वेऽपि एकदेशविकृतमनन्यवद् इत्यतिदेश्यम्। ननु तिर्यकशब्दोऽयमव्ययमिति कथं निश्चितम्? सत्यम्, अव्ययाधिकारात्।।१३२८।
[समीक्षा] _ 'तिर्यक्कारम्, तिर्यक्कृत्य, तिर्यक् कृत्वा' इत्यादि शब्दरूपों की सिद्धि उक्त की तरह समझनी चाहिए। पाणिनि का सूत्र हैं- “तिर्यच्यपवर्ग'' (अ० ३।४।६०) । इस प्रकार उभयत्र अधिकांश समानता ही स्वीकार करनी चाहिए।