________________
५६७
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः वादिपादः १३२७. कृञोऽव्ययेऽयथेष्टा ज्याने क्त्वा च [४।६।४२] [सूत्रार्थ]
अनभिप्रेत के कथन में अव्यय के उपपद में रहने पर ‘कृञ्' धातु से ‘णम्' तथा ‘क्त्वा' प्रत्यय होते हैं।।१३२७।
[दु० वृ०]
यथेष्टमिति वीप्सायामव्ययीभावः। अव्यये उपपदे कृो णम् भवति क्त्वा च अयथेष्टाख्याने गम्यमाने। ब्राह्मण! पुत्रस्ते जातः नीचैःकारम्, नीचैःकृत्य, नीचैः कृत्वाचष्टे। ब्राह्मण! कन्या ते गभिर्णी किन्तर्हि वृषली। उच्चै:कारम् , उच्चैःकृत्य, उच्चैः कृत्वाचष्टे। नीचैर्नामाप्रियमाख्येयम्। उच्चै म प्रियमाख्येयम्। अयथेष्टाख्याने इति किम्? ब्राह्मण! पुत्रस्ते जातः, उच्चैः कृत्वा आचष्टे। समासविकल्पार्थं क्त्वाग्रहणम्।।१३२७।
[दु० टी०]
कृञः। यथेष्टमित्यादि। यथेष्टं यदभिप्रेतं न यथेष्टमनभिप्रेतम् अयथेष्टं तस्याख्यान इति केचित्। पदार्थानतिवृत्तावव्ययीभावमाहुः। इष्टातिक्रमेणाख्याने प्रतिकूलाख्याने इत्यर्थः। क्त्वा चेति। ननु चकारेण क्त्वाप्रत्ययस्य सम्बन्धाण्णमः प्रधानस्यानुवृत्तिरुत्तरत्र युक्ता, क्त्वाप्रत्ययस्याव्यवधानस्य कथमिति? सत्यम्, चकारसम्बन्ध एव क्त्वाऽनुवर्तते अनन्तरत्वात्, णमोऽप्यनुवृत्तिरव्याहतैवेत्यदोषः।।१३२७।
[वि०प०]
कृञः। वीप्सायामिति। अयथेष्टमिति। यद् यद् इष्टमभिप्रेतम्, तद् यथेष्टम्, ततोऽन्यदयथेष्टम, तस्याख्यान इति। ननु णमेव विधीयताम्, विकल्पाधिकारात् पक्षे पूर्वकाले पूर्वेणैव क्त्वा भविष्यतीत्याह- समासेत्यादि। अनेन क्त्वाविधानेन तृतीयादित्वमस्ति, तृतीयादीनां वेति पक्षे उपपदममास: स्यानान्यथेति भावः। यद्येवं क्त्वा चेति चकारसम्बन्धादस्य प्रधानत्वात् कथमुत्तरत्रानुवृत्ति: प्रधानस्य णमेव स्यात्? सत्यम्, अनन्तरत्वादुत्तरत्रापि चकारसम्बन्ध एव क्त्वानुवर्तिष्यते, णमोऽपि दृष्टाधिकारस्यानुवृत्तिरव्याहतेति।।१३२७।
[समीक्षा]
'उच्चैःकारम्, उच्चैःकृत्य, उच्चैः कृत्वा' आदि शब्द उक्त की तरह णम्-णमुल् प्रत्यय करके तथा क्त्वा प्रत्यय से सिद्ध किए गए हैं। पाणिनि का सूत्र है"अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ' (अ० ३।४।५९)। अत: उभयत्र समानता ही है।
[विशेष वचन] १. उच्चै म प्रियमाख्येयम् (दु०वृ०)। २. नीचैर्नामाप्रियमाख्येयम् (दु०वृ०)।