________________
५६४
कातन्त्रव्याकरणम् द्रव्यस्येव द्विवचनम्। आसेवा तात्पर्यम् आभीक्ष्ण्यम्, तच्च क्रियाया एवेति विश्यादीनां णमन्तानां द्विर्वचनं भवति। गेहं गेहमनर, मास्ते। गेहमनुप्रवेशमन-प्रवेशमाप्ने। गेहं गेहमनुप्रपातमास्ते, गेहमनुप्रपातमनुप्रपातमास्ते। गेहं गेहमनुप्रपादमास्ते। गेहमनुप्रपादमनुप्रपादमास्ते। गेहं गेहमवस्कन्दमास्ते, गेहमवस्कन्दमवस्कन्दमाम्ते। समासे एव वीप्सा आभीक्ष्ण्यार्थमभिधत्ते, शब्दशक्तित्वात्। गेहानुप्रवेशं गेहानुप्रपातं गेहानुप्रपादं गेहावस्कन्दमास्ते इति। व्याप्यमानासेव्यमानयोरिति किम्? गेहमनुप्रविश्य भुङ्क्ते। आभीक्ष्ण्ये णम् सिद्धः। उपपदसमासविभाषार्थमिदम्।।१३२४।
[वि०प०]
विशि०। व्याप्तियोगाद् व्याप्यमानं द्रव्यम्, आसेवायोगाच्चासेव्यमाना क्रिया. तत्र द्रव्ये व्याप्ति:, क्रियायामासेवेति। विषयविभागमाह-यद्याश्रुतत्वादित्यादि। न ह्यन्यथा व्याप्त्यासेवयोः प्रतीतिरिति द्विर्वचनं तत् पुनर्लोकोपचारादित्युक्तम्। ननु यद्यासेवा क्रियाया एव धर्मस्तदा आसेव्यमानमिति यदा कर्मणि प्रत्ययस्तदा क्रियेव आसेव्यमानेति कथमुक्तम् आसेव्यमाने द्वितीयान्ते उपपदे इति? अथ भावे तथापि कथमासेवाया उपपदत्वम्, केवलम् आसेव्यमाने गम्यमाने इति स्यात्। यदाह जयादित्यः- व्याप्यमाने आसेव्यमाने गम्यमाने इति? सत्यम्, कर्मण्येव प्रत्ययस्तथाप्यासेव्यमानक्रियासाधनत्वाद गेहादिकमप्यासेव्यमानमिति। अथ भाव एवोभयत्र प्रत्ययो गम्यमानार्थोऽपि वृत्तावन्तर्भूतः, ततो द्वितीयान्ते उपपदे व्याप्यमाने आसेव्यमाने गम्यमाने इति सूत्रार्थ:। समास एवेति। एतेन समासे द्विर्वचनं न भवतीति उक्तं भवतीति।।१३२४
[क ० त०]
विशि०। वृत्तौ आसेव्यमाने इत्यनन्तरं गम्यमाने इति बोद्धव्यम्, श्रुतत्वादिति। अन्यथा सूत्रे षष्ठीनिर्देशोऽनर्थक: स्यादिति भावः। द्रव्याणामेवेति। न तु गुणादीनां पतनादेरभावाद् इति कश्चित्, अभिधानादित्यन्यः। आसेवेत्यादि। आभीक्ष्ण्यपदेनासत्तिरुच्यते न तु पौन:पुन्यम् आसेवा वेत्युक्तमिति। णम् सिद्ध एवेति। ननु क्त्वापि स्यादिति दूषणं कथन स्यादिति चेत्, सत्यम्। एतदपि दूषणमिति कश्चित्। तत्र व्यवस्थितविभाषया एतेभ्यो णम् भविष्यतीत्यन्यः।।१३२४।
[समीक्षा]
'गेहानुप्रवेशम्' आदि शब्दरूपों की सिद्धि उक्त की तरह कातन्त्र में णम् तथा पाणिनीय में णमूल प्रत्यय से की गई है । पाणिनि का सूत्र है- “विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः' (अ० ३।४।५६)। इस प्रकार पाणिनीय 'उ-ल' अनुबन्धों के अतिरिक्त तो उभयत्र समानता ही है।