________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५६५
[रूपसिद्धि]
१-८. गेहं गेहमनुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशमास्ते । गेहं गेहमनुप्रपातमास्ते । गेहमनुप्रपातमनुप्रपातमास्ते । गेहं गेहमनुप्रपादमास्ते। हमनुप्रपादमनुप्रपादमास्ते । गेहं गेहमवस्कन्दमास्ते। गेहमवस्कन्दमवस्कन्दमास्ते । अनु + प्र-पूर्वक 'विश-पत-पद' धातु तथा अवपूर्वक 'स्कन्द' धातु से णम् प्रत्यय, द्वित्व तथा विभक्तिकार्य । । १३२४।
१३२५. तृष्यस्वोः क्रियान्तरे कालेषु [ ४ । ६ । ४० ] [सूत्रार्थ]
क्रिया का व्यवधान होने पर एवं द्वितीयान्त कालवाचक शब्द के उपपद में रहने पर 'तृष्- अस्' धातुओं से 'णम् ' प्रत्यय होता है ।। १३२५ ।
[दु०वृ०]
कालेषु द्वितीयान्तेषूपपदेषु क्रियान्तरे गम्यमाने तृष्यस्वोर्णम् भवति। द्व्यहं तर्षं द्व्यहतर्षं गाः पाययति। द्व्यहमभ्यासं द्वयहमभ्यासं गाः पाययति । अद्य यत् पानं यच्च यहेऽतीते भविष्यति, तन्मध्यवर्तिना तर्षणेनाभ्यसनेन गवां पानक्रिया व्यवधीयते । तृष्यस्वोरिति किम्? द्व्यहमुपोष्य भुङ्क्ते । क्रियान्तरे इति किम् ? अहरभ्यस्य इषून् गतः । अभ्यसनेन इषवः कालाश्च व्याप्यन्ते न गतिर्व्यवधीयते । कालेष्विति किम् ? योजनमभ्यस्य गाः पाययति । क्रियाग्रहणं सुखार्थम्॥ १३२५।
[दु०टी० ]
तृष्यस्वोः । केचित् क्रियान्तरे काल इति समानाधिकरणं न पठन्ति । क्रियामन्तरयतीति कर्मण्यण्। अन्तरशब्दश्च व्यवधानवचन एव । क्रियान्तरव्यवधायकः काल इत्यर्थः।।१३२५।
[वि०प०]
तृष्यस्वो: । 'ञि तृष पिपासायाम्, असु क्षेपणे' (३।६६, ४९)। क्रियाया अन्तरं व्यवधानं क्रियान्तरम्। अद्येत्यादिना तदेवाचष्टे। उपोष्येति । उपपूर्वो 'वस निवासे' (१|६१४) " क्त्वो यप्" (४।६।५५) इति यप् । यजादित्वात् सम्प्रसारणम् । "शासिवसिघसीनां च " ( ३।८।२७) इति षत्वम् । इह सान्निध्यात् तृष्यस्वोरेवार्थेन तर्षणेनाभ्यसनेन चान्तरं व्यवधानं गम्यते तच्च क्रियाया एव सम्भवति नेतरस्येत्याह— क्रियेति ।। १३२५।
[क०त०]
तृष्यस्वोः । द्व्यहमित्यादि । द्व्यहं तृषां प्रपर्यान्तर्भूतेनार्थत्वात् तृषधातोरेवमर्थः करिष्यते। योजनमिह प्रहरावच्छिन्न एवाध्वा उच्यते, न तु कालः ।। १३२५ ।