________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
अन्ये तु तथेति पाठं मन्यमानाः प्रयोजनान्तरमाहुः, तदयुक्तम्। परपक्षेऽपि पूर्वकाले क्त्वा केन निषिध्यते । तृतीयं प्रयोजनमाह — अन्यथेति । ननु कथमुक्तार्थता ? क्रियाविशेषणं हि परो मन्यते, यदाहुश्चान्द्राः- घञन्तेन क्रियाविशेषणेन सिद्धत्वात्, न च क्रियाविशेषणस्य कर्मत्वमुक्तार्थं संभवति — स्तोकमोदनः पच्यते इति दर्शनात् ? सत्यम्। यदा तु भुजिक्रियाव्याप्यत्वाद् द्वितीया भविष्यतीति पूर्वपक्ष:, तदेदं दूषणम्। तदिदमुक्तं व्याप्यत्वाद् द्वितीया भविष्यतीति । क्रियाविशेषणे तु पूर्वपक्षे दूषणद्वयमुक्तमेव द्रष्टव्यमिति प्रकृतानुरूपमेव दृष्टान्तमाह — यथा ओदन इति । ननु कथमुक्तार्थता? तथाहि अत्र द्वे क्रिये भुजेः पचेश्च सन्निहितत्वात्। तत्र भुज्यते इति कर्मण्यात्मनेपदम् भुजिक्रियानिबन्धनमोदनस्य कर्मत्वमुक्तम्, पचिक्रियानिबन्धनं पुनरनुक्तकर्मत्वमस्त्येव, नहि पचेः कर्मणि प्रत्ययः, अपि तु भावे । तदेवाह — कृदव्ययो हि भावेऽभिधानादिति । न च वक्तव्यम् अविवक्षितकर्मत्वाद् भावे प्रत्ययः इति कथन्तद्योगे कर्मत्वमिति वाच्यम्, भावेऽपि धात्वर्थकृता व्याप्तिरस्तीति कर्मविभक्तिर्युज्यते । यथा कटं कृत्वा घटं कर्तुं गतः इति ? सत्यम्, इह क्रियाद्वये गुणप्रधानभावोऽस्तीति, यत् परार्थं स गुणः, अपरार्थं च प्रधानम्।
एवं च स्थिते प्रधानक्रियानिमित्तमपि कर्माभिधाने गुणक्रियानिमित्तमपि कर्म अभिहितमिव भासते, गुणानां प्रधानानुयायित्वादित्याह -- प्रधानेत्यादि । प्रधानक्रियानिमित्ता शक्तिः कर्मलक्षणा प्रधानशक्तिः शाकपार्थिवादिदर्शनान्मध्यपदलोपी समासः। एवं गुणशक्तिरिति । अथवा क्रियाया: प्रधानगुणत्वात् तन्निबन्धनायाः शक्तेरपि तथेति । तदा प्रधाना चासौ शक्तिश्चेति, गुणा चासौ शक्तिश्चेति विग्रहार्थो वेदितव्यः । एतेनेदमपि चोद्यमपास्तम्। ओदनं पक्त्वा भुङ्क्ते देवदत्त इति । भुजिक्रियानिमित्तं नाम देवदत्तस्य कर्तृत्वं वर्तमानयाऽभिहितं पचिक्रियानिमित्तत्वं तु न केनाप्युक्तमिति कर्तरि तृतीया प्राप्नोतीति देश्यमपास्तम्, तेन सहास्य समानरीतित्वात्।।१३१३।
५५३
[क०त०]
ऊर्ध्वे । वृत्तौ णमो विधानमिति । ननु कथमिदमुच्यते, अन्यथाकारमित्यादौ हि खमिञो विधानमिति ? सत्यम्, अनेन वृत्तिकृता णम्खमिञोरेकविषयत्वं प्रतिपादितमिति णम् खण्डने तस्यापि खण्डनमिति बोध्यम् । यद् वा उपलक्षणमेतदिति। यद् वा किमर्थम् अन्यथैवमित्यादिसूत्रमित्यर्थः । णमो विधानं च किमर्थमिति योज्यं व्याप्यत्वादिति । एतेन करणपूर्वकं भोजनमिह भुजेरर्थः । अतोऽन्यथाकारमिति । न गम्यमानक्रियाकर्मद्वितीया यथेति स्याद् उक्तार्थत्वादिति वक्ष्यमाणत्वात् । न अन्तर्भूतप्रापणपूर्वकं शयनं शीङ्घातोरर्थः ।
तरां तमामिति। अव्ययत्वादक्प्रत्ययोऽपि प्रयोजनमिति उक्तार्थत्वादिति । ननु यद्येते दोषाः सन्ति तदा कथमन्यथैवमित्यादि वचनम् उक्तार्थानामप्रयोग इत्यस्य
·