________________
५५२
कातन्त्रव्याकरणम
[रूपसिद्धि]
१. जीवनाशं नष्टः। जीव-नश्ण म्-सि। जीवो नष्टः। 'जीव' शब्द के उपपद में रहने पर ‘णश अदर्शने' (३।४१) धातु से प्रकृत सूत्र द्वारा णम् प्रत्यय, उपधादीर्घ तथा विभक्तिकार्य।
२. पुरुषवाहं वहति। पुरुष- वह + णम्-सि। पुरुषो वहति। 'पुरुष' शब्द के उपपद में रहने पर 'वह प्रापणे' (१।६१०) धातु से प्रकृत सूत्र द्वारा णम् प्रत्यय, उपधादीर्घ तथा विभक्तिकार्य।।१३१२।
१३१३. ऊर्चे शुषिपूरोः [४।६।२८] [सूत्रार्थ
कर्तृवाची 'ऊर्ध्व' शब्द के उपपद में रहने पर 'शुष्-पूर्' धातुओं से ‘णम्' प्रत्यय होता है।।१३१३।
[दु०वृ०]
ऊचे कर्तृवाचिन्युपपदे शुषेः पूरेश्च णम् भवति। ऊर्ध्वशोषं शुष्कः। ऊर्ध्वपूरं पूर्णः। ऊर्ध्वः सन् शुष्क इत्यर्थः। अन्यथाकारं भुङ्क्ते इत्यादिषु किमर्थं णमो विधानम्? व्याप्यत्वाद् द्वितीया भविष्यति। यथा ओदनपाकं शेते। ग्रहेर्न घत्र इति कर्तव्यमेव। गोष्पदं प्रातीति गोष्पदप्रमिति क्रियाविशेषणत्वात्, तदयुक्तम्, तरां तमां चेष्यते अव्ययत्वात्। पूर्वकालोऽपि यथाभिधानं प्रतिपाद्य एव। तथा च विकल्पाधिकारे क्त्वापि दृश्यते। अन्यथाकारं भुज्यते ओदनः इति द्वितीया न स्याद् उक्तार्थत्वात्। यथा ओदन: पक्त्वा भुज्यते इति कृदव्ययो हि भावेऽभिधानात्। प्राणिशक्त्यभिधाने गुणशक्तिरभिहितवत् प्रकाशते।।१३१३।
[वि०प०]
ऊर्ध्व०। अन्यथाकारमित्यादि। अन्यथाकरणम् अन्यथाकारम् इति भावे घञन्ताद् द्वितीयया सिध्यतीति भावः। अहेर्न घञिति। "स्वरवृदृगमिग्रहामल्'' (४।५।४१) इत्यलेवास्ति। ततो जीवे ग्रहः, हस्तार्थे ग्रहः इति च विधीयतामिति भावः। गोष्पदं प्रातीति। “आतोऽनुपसर्गात् कः' (४।३।४)। एतेन “वर्षप्रमाणे ऊलोपश्च वा" (४।६।१४) इत्यपि न वक्तव्यमित्युक्तम्, 'प्रा पूरणे' (२।५) इत्यनेनैव सिद्धत्वात्। पक्षे पूरयतिनालन्तेन सिद्धमिति। परिहारमाह- तदयुक्तमिति। क्त्वा मकारांन्तश्च 'कृत् स्वभावादसंख्यम् इत्यव्ययमेवेत्युक्तम् “आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणे" इत्यादिना अन्यथाकारंतराम, अन्यथाकारंतमाम् इति यथा स्यादिति भावः। पूर्वकालोऽपीति। घञा तु न पूर्वकालः प्रतिपादयितुं शक्यते, घञः पूर्वकालेऽनभिधानात्। यथाभिधानमिति। ‘यावज्जीवमधीते' इत्यादौ क्वचित् पूर्वकालस्याप्रतीतेरिति भावः। पूर्वकालसद्भावमेव ज्ञापयति- तथा चेति। तद् यथा 'अन्यथाकृत्वा भुङ्क्ते इत्यादि।