________________
२१
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः ५. लिहानाः। लिह् + शानङ् + जस् । 'लिह आस्वादने' (२।६३) धातु से शानङ् प्रत्यय, प्रकृत सूत्र से गुणनिषेध तथा विभक्तिकार्य ।
६. चिन्वानाः। चि + नु + शानङ् + जस् । 'चिञ् चयने' (४।५) धातु से शानङ् प्रत्यय, नु-विकरण, वकारादेश तथा विभक्तिकार्य ।।८६१।
८६२. के यण्वच्च योक्तवर्जम् [४।१।७] [सूत्रार्थ]
ककारानुबन्ध वाले कृत्प्रत्यय के परे रहते यण्वत् कार्य होता है, य-प्रत्यय के विषय में जो कहा गया है उसे छोड़कर ।।८६२।
[दु० वृ०]
कानुबन्धे कृति परे यणीव कार्यं भवति, ये उक्तं वर्जयित्वा। कृतः, कृतवान, गृहीत्वा, इष्टिः। यण्वद्भावेऽगुणत्वं सम्प्रसारणं च स्यात् । योक्तवर्जमिति किम् ? कृतः, जितः, स्मृतः। इकारागमदीर्घगुणा न स्युः।।८६२।
[दु० टी०]
के० । यण्वद्भाव इत्यादि । णकारानुबन्धत्वाद् यणि गुणप्रतिषेधो दृष्टः, स्वपिवचियजादीनां यणि सम्प्रसारणं दृष्टम् । ये उक्तं योक्तं यकारेण यदा यण विशेषितो भवति एकयोगनिर्दिष्टत्वात् तदा यण्वद्भावो न भवतीत्यर्थः । तद् यथा “यणाशिषोयें, नाम्यन्तानां यणायियिन्नाशीशिवचेक्रीयितेषु ये दीर्घः, गुणोऽर्तिसंयोगायोः" (३।४।७४, ७०, ७५) इति । चकार उक्तसमुच्चयमात्रे ।।८६२।
[वि०प०]
के यण्वत् । इष्टिरिति । यजे: सम्प्रसारणम् , भृजादित्वात् षत्वम् । योक्तेत्यादि । ये उक्तं योक्तम् , यकारेण विशेषिते यणि यदुक्तं तद् वर्जयित्वेत्यर्थः। तेन "यणाशिषोयें, नाम्यन्तानां यणायियिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः, गुणोऽर्तिसंयोगायोः" (३।४।७४, ७०, ७५) इत्येतैयोगैर्यथाक्रमेण कृतः इत्यादिषूदाहरणेषु इकारागमदीर्घगुणाः प्राप्ताः । योक्तत्वान्न भविष्यन्तीत्यर्थ: ।।८६२।
[क० च०]
के यण् । यणशब्दाश्रितस्य कार्यस्य सम्प्रसारणस्यैवात्रातिदेशश्चकारादगुणश्च । तेन 'जजागर्वान्' इत्यत्र गुणाभाव इति वररुचिः। तदसत् "जागुः कृत्य०" (४।१८) इत्यादिना गुण एव भवति जजागर्वान् इति । तस्मादत्र यणि दृष्टमात्रकार्यस्यातिदेशः, तर्हि 'बुद्धः' इत्यत्र धुटां तृतीयो न भवति ? सत्यम् , वत्करणं स्वाश्रयार्थमिति । तेन धुट्कार्य स्यादेव ॥८६२।
[समीक्षा]
'कृतवान् , गृहीत्वा' आदि शब्दरूपों के सिद्ध्यर्थ गुणनिषेध तथा सम्प्रसारण की आवश्यकता होती है, इनका विधान दोनों ही व्याकरणों में किया गया है । पाणिनि के सूत्र