________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
१३०६. करणे [४।६।२१]
५४७
[सूत्रार्थ]
करणवाचक के उपपद में रहने पर 'हन्' धातु से 'णम् ' प्रत्यय होता है ।। १३०६। [दु०वृ० ]
करणवाचिन्युपपदे हन्तेर्णम् भवति । पादघातं भूमिं हन्ति । पादेन हन्तीत्यर्थः। मुष्टिघातं चौरं हन्ति । मुष्ट्या हन्तीत्यर्थः । परमपि हिंसार्थाच्चैककर्मकादिति वचनं बाधते करणस्य व्यक्तित्वात्। १३०६ ।
[दु०टी० ]
करणे। मुष्टिघातमित्यादि। यदि हिंसार्थाच्चैककर्मकादित्यनेन णम् स्यात्, ततश्चानित्यसमासश्च कषादिषु तैरेवानुप्रयोगश्च न स्यात् करणवाच्युपपदं व्यक्तया प्रतिपत्तव्यम्। एकवचनमतन्त्रं 'पूर्वपरयोः परविधिर्बलवान्' (कलाप० ७०, पृ० २२८ ) इति पूर्वशब्दस्येष्टवाचित्वाद् इत्यन्ये पूर्वोऽपि भवतीति वर्णयन्ति ।। १३०६।
[वि०प०]
करणे। मुष्टिघातमिति । यदि पुनरिह हिंसार्थाच्चैककर्मकादित्यनेन णम् भवेत् तदा तृतीयादित्वमस्तीति तृतीयादीनां वेत्यनेनोपपदसमासः पाक्षिकः स्यात्, कषादिषु तैरेवानुप्रयोगश्च न स्यात्। करणमिह व्यक्त्या निर्दिश्यते।। १३०६ ।
[क०त०]
करणे । करण इति न प्रत्ययविशेषणम्, उपपदप्रस्तावात् कृदव्ययो हि भावेऽभिधानादित्यन्यः। वृत्तौ परमपीति हन्धातोर्हिसा गतिश्चार्थः, तत्र गत्यर्थेऽस्य विषयः हन्-धातुव्यतिरिक्ते हिंसार्थधातौ हिंसार्थाच्चैककर्मकादित्यस्य विषयः, ततश्च हिंसार्थे हन्-धातोः परत्वं युज्यते । यद् वा भिन्नक्रियानुप्रयोगविषये तस्य विषयः कषादित्वाभावात्। पादघातं भूमिं हन्तीत्यत्रास्य विषयः । एकधात्वर्थप्रयोगाद् हिंसार्थत्वाभावाच्च। अतः परत्वं युज्यते इति । करणस्य व्यक्तित्वादिति । ननु सूत्रसामर्थ्यादेवानेन भविष्यति किमर्थं व्यक्तित्वमाश्रीयते? सत्यम्। अयमपि सिद्धान्तविशेषः इति कश्चित् तन्न। गत्यर्थादौ चरितार्थत्वेन सूत्रसामर्थ्यस्य वक्तुमयोग्यत्वात्। ननु व्यक्तिनिर्देशश्चेद् व्यक्तीनां बहुवचनत्वाद् बहुवचनमेव युज्यते इत्याह-टीकायामेकवचनमतन्त्रमिति।। १३०६।
[समीक्षा]
'पादघातम्, मुष्टिघातम्' इत्यादि शब्दरूपों के साधनार्थ कातन्त्रकार ने 'णम्' प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय किया है। पाणिनि का सूत्र है- "करणे हन: " (अ० ३।४।३७)। इस प्रकार पाणिनीय 'उ-ल्' अनुबन्धों को छोड़कर शेष तो उभयत्र समानता ही है।