________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५३७
[रूपसिद्धि]
१. स्वादुङ्कारं भुङ्क्ते। स्वादु कृ+खमिञ्+अम्। 'स्वादु' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से खमिञ् प्रत्यय, इज्वद्भाव, 'ऋ' को वृद्धि, "ह्रस्वारुषोर्मोऽन्तः' (४।१।२२) से मकारागम तथा विभक्तिकार्य।
२-३. लवणकारं भुङ्क्ते। लवण+कृ+खमिञ्-अम्। सम्पन्नङ्कारं भुङ्क्ते। सम्पन्न कृ+खमिञ्+अम्। 'लवण-सम्पन्न' शब्दों के उपपद में रहने पर 'कृ' धातु से खमिञ् प्रत्यय तथा विभक्तिकार्य।। १२९३। १२९४. अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् [४।६।९] [सूत्रार्थ]
'अन्यथा-एवम्-कथम्-इत्त्थम्' शब्दों के उपपद में रहने पर 'कृ' धातु से अनावश्यक प्रयोग होने की स्थिति में खमिञ् प्रत्यय होता है।।१२९४।
[दु०वृ०]
एखूपपदेषु कृञः खमिञ् भवति सिद्धाप्रयोगश्चेत् करोतिर्वर्तते। यस्मादन्यथादय: शब्दाः प्रकारमाचक्षते, उक्तार्थेऽपि प्रयोगाविर्भावाय करोतिः प्रयुज्यते। अन्यथाकारं भुङ्क्ते, एवङ्कारं भुङ्क्ते, कथङ्कारं भुङ्क्ते, इत्थङ्कारं भुङ्क्ते। सिद्धप्रयोगश्चेदिति किम्? अन्यथा कृत्वा शिरो भुङ्क्ते।।१२९४।।
[दु०टी०]
अन्यथैवम्।। सिद्धोऽप्रयोगोऽस्येति विग्रहः। यस्मादित्यादिनाऽन्वर्थतां दर्शयति'अन्यथा भुङ्क्ते' इति यावानर्थः करोतावप्रयुज्यमाने गम्यते तावानेव ‘अन्यथाकारं भुङ्क्ते' इति प्रयुज्यमानेऽपि कथमुक्तार्थस्य प्रयोग इत्याह-- उक्तेष्वपीत्यादि।।१२९४।
[वि०प०]
अन्यथैवम्। सिद्धोऽप्रयोगोऽस्येति विग्रहः। एतस्मिन्नर्थे हेतुमाह– यस्मादिति। अन्यथादयो हि शब्दा: प्रयोगे धात्वर्थस्य प्रकारमाचक्षते, यदा त तैर्विशिष्यमाण: करोतिरपि तमेव प्रकारमाहेत्यस्य तदा सिद्धाप्रयोगत्वमनर्थकत्वमुच्यते। तथाहि यावानेवार्थोऽन्यथा भुङ्क्ते तावानेवान्यथाकारं भुङ्क्त इति। यद्येवमुक्तार्थस्य कथं प्रयोग इत्याह-उक्तेष्वपीति। अन्यथादिभिः सम्बन्धः। प्रयोगाविर्भावायेति इतिशब्दो वाक्यसमाप्तौ प्रयुज्यते इत्यस्यानन्तरं द्रष्टव्यः। अन्यथा कृत्वा शिरो भुङ्क्ते इति। अन्यथाशब्देन शिरस: प्रकार उच्यते, न तु भुजेरर्थस्येति। नासौ करोतिमन्तरेण गम्यते इति करोतेरर्थवत्त्वम्।।१२९४।
[क० त०]
अन्यथैवम्। अन्यथैवंकथंस्विति कृते कथमित्त्थमौ अवगम्यते। केवलथमित्यस्याभावात् थमन्तो लभ्यते यथातथमिति न गृह्यते तत्र सिद्धाप्रयोगत्वं घटते, किन्तु