________________
५३६
कातन्त्रव्याकरणम् १२९३. स्वादौ च [४।६।८] [सूत्रार्थ]
'स्वादु' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से 'खमिच् प्रत्यय होता है।।१२९३।
[दु० वृ०]
स्वाद्वर्थे स्वादुः। तस्मिन्नुपपदे कृञः खमिञ् भवति। स्वादुङ्कारं भुते, लवणङ्कारं भुङ्क्ते, सम्पनङ्कारं भुङ्क्ते। स्वादाविति किम्? रूपमिदमदीर्घान्ततां गमयति। तेन स्वादूकृत्य, स्वाद्वीकृत्वा यवागू भुङ्क्ते।।१२९३।
[दु० टी०]
स्वादौ०। स्वाद्वर्थे स्वादुरित्यर्थपरोऽयं निर्देशो न शब्दपरः इति व्याख्यानतो विशेषार्थप्रतिपत्तेः। स्वादाविति। “ङिरौ सपूर्व:' (२।१।६०) इति ह्रस्वान्तस्य सम्भवति. तदाऽर्थाद् ह्रस्वान्ता गृह्यन्ते साहचर्यात्, एतेन सम्पनीकृत्य, सम्पन्नं कृत्वा, लवणं दत्त्वा भुङ्क्ते इति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य ग्रहणं वा एतेन स्वाद्वथें दीर्घान्त इति स्थितम्।। १२९३।
वि०प०]
स्वादो। स्वाद्वर्थे स्वादुरित्यनेनार्थपरो निर्देशोऽयं न शब्दपर इति दर्शितम्, अत: पर्यायेणापि दर्शयतीत्यर्थः। स्वादूकृत्येति। विप्रत्यये “नाम्यन्तानां यणायि०" (३।४।७०) इत्यादिना दीर्घः। एवं ‘सम्पनीकृत्य, सम्पत्रं कृत्वा' इत्यादावपि न भवति।।१२९३।
[क० त०]
स्वादौ०। टीकायां व्याख्यानत इति व्याप्तिन्यायादित्यर्थः। यद् वा पूर्वस्मिन् कर्मणीत्यर्थः। परनिर्देशादत्रापि तथा व्याख्यानादिति रूपप्रधाननिर्देशेऽपि नपुंसकता स्यात्। तस्मादर्थपरोऽयं निर्देश इति कश्चित्, तत्र, पुंवद्भावविषयत्वात्। साहचर्यादिति स्वादुशब्दस्य रूपप्रधाननिर्देशस्तदर्था अपि ह्रस्वा एव गृह्यन्ते। साहचर्यमत्र कल्पनया पर्यवसितमिति।।१२९३।
[समीक्षा]
'स्वादुङ्कारम्, लवणङ्कारम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार खमित्र प्रत्यय तथा पाणिनि णमुल् प्रत्यय करते हैं। यहाँ अनुबन्धभेद के अतिरिक्त तो उभयत्र समानता ही है। पाणिनि का सूत्र है- “स्वादुमि णमुल" (अ० ३।४।२६)।
[विशेष वचन] १. स्वाद्वर्थे स्वादुरित्यर्थपरोऽयं निर्देशो न शब्दपर: (दु० टी० )। २. स्वादुशब्दस्य रूपप्रधाननिर्देश: (क० त०)।