________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५३५ तत्र चौरोऽसीत्याक्रोशनवाक्ये चौरस्य यत् करणमुच्चारणं तदाक्रोशनस्यैव सम्पादनार्थम्। न हि तेन विना आक्रोश: शक्यते सम्पादयितुम्, न पुनयुक्तिभिरसौ चौरः क्रियते इति। अतश्चौरस्य कर्मत्वमाक्रोशनक्रिययैव न करोतिक्रिययेति।।१२९२।
[क० त०]
कर्म०। वृत्तो आक्रोशने गम्यमाने इति। ननु साक्षादेव श्रूयते तत् कथं गम्यमान इति? सत्यम्, आक्रोशताति पदाद् गम्यत, न तु धातोः सकाशादिति। चौरंकारमिति। नन् करणस्य कथमाक्रोशनमित्याह- करोतिरिहोच्चारण इति। आक्रोशनक्रिययैवेति। यत्राक्रोशतिर्विद्यते तत्रैव स्यादिति भावः। ननु यद्याक्रोशनक्रियया चौरः कर्म तदा कथं कृञ उपपदं स्यात्। नैवम्, चौरस्य यत् करणमुच्चारणं तदाक्रोशनस्यैव सम्पादनार्थमिति कृत्वा क्रोशनकोच्यते। किन्तूपकारित्वमुच्चारणेऽप्यस्तीति। पञ्ज्यां न पुनरुपपत्तिभिरिति युक्तिभिरित्यर्थः।
पाठान्तरम्- टीकायाम् आक्रोशविषये इत्यनेनाक्रोशविषय इति प्रकृतिविशेषणमित्युक्तम्। आक्रोशे गम्यमान इत्यनेन प्रत्ययविशेषणमित्युक्तं पूर्वकालावधारणविषयेति। अयमभिप्राय:- परक्रियापेक्षयैव पूर्वकालता। -परक्रिया चात्रापर्वक्रुशधातुवाच्यैव श्रुतत्वादिति चौरङ्कारमित्युक्ते कथमाक्रोशप्रीतिरित्याहवृत्तौ करोतिरिहोच्चारण इति तथापि कथमित्याह- चौरोऽसीत्यादि। आक्रोशक्रियया कमेंति आक्रोशक्रियया हेतुभूतया, चौरशब्दोच्चारणानुकरोतिः कर्मत्यर्थः। यस्मादाक्रोशनं चौरादिशब्दमन्तरेण न स्यादित्यर्थः]।।१२९२।
[समीक्षा]
'चौरङ्कारमाक्रोशति' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'खमित्र' प्रत्यय तथा पाणिनि ‘खमुञ्' प्रत्यय करते हैं। पाणिनि का सूत्र है-“कर्मण्याक्रोशे कृञः खमुञ्' (अ० ३।४।२५)। अतः पाणिनीय उकारानुबन्ध के अतिरिक्त अन्य प्रकार की उभयत्र समानता है।
[विशेष वचन] १. करोतिरिहोच्चारणे (दु०वृ०)। २. करोतिरभूतप्रादुर्भावार्थ: (दु०टी० )। ३. खमिञ इकार उच्चारणार्थ: (वि०प०)। [रूपसिद्धि]
१. चौरङ्कारमाक्रोशति। चौर+कृ+खमिञ्+अम्। 'चौर' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा खमिञ् प्रत्यय, ‘ख्-इ-ञ्' अनुबन्धों का प्रयोगाभाव, ऋकार को वृद्धि, "ह्रस्वारुषोर्मोऽन्तः” (४।१।२२) से मकारागम तथा विभक्तिकार्य।। १२९२।