________________
५३२
[रूपसिद्धि]
१. भोजं भोजं व्रजति । भुज् - णम् - सिं। "भुज्' धातु से 'णम् ' प्रत्यय, उपधागुण.
पद को द्वित्व तथा विभक्तिकार्य ।
कातन्त्रव्याकरणम्
२. भुक्त्वा भुक्त्वा व्रजति । भुज् + क्त्वा पद को द्वित्व तथा विभक्तिकार्य।। १२९०।
[सूत्रार्थ]
'अग्रे-प्रथम
१२९१. विभाषाग्रेप्रथमपूर्वेषु [ ४ । ६ । ६ ]
सि । 'भुज' धातु से क्त्वा प्रत्यय,
-पूर्व' शब्दों के उपपद में रहने पर धातु से वैकल्पिक 'णम्' प्रत्यय
होता है ।। १२९१ । [दु०वृ० ]
एषूपपदेषु विभाषया धातोर्णम् भवति । अग्रेभोजं व्रजति, अग्रे भुक्त्वा व्रजति। प्रथमं भोजं व्रजति, प्रथमं भुक्त्वा व्रजति । पूर्वं भोजं व्रजति, पूर्वं भुक्त्वा व्रजति । पूर्वं भुङ्क्ते ततो व्रजतीति ततः शब्देन क्रमस्याभिधानात्। १२९१ ।
[दु०टी० ]
Q
विभाषा । आभीक्ष्ण्य इति न वर्तते इष्टत्वात् । अभीक्ष्ण्ये प्राप्ते ' क्त्वा-णम्'विधाने वासरूपविधिर्नास्तीति विभाषाग्रहणम्, पक्षे वर्तमानादयोऽपि भवन्तीति अग्रे भुङ्क्ते, व्रजति अग्रेभोजंभोजं व्रजति तथा अग्रे भुङ्क्ते व्रजति । यदि पुनः कर्तृविवक्षया वर्तमानादय उच्यन्ते, तदात्र विभाषाग्रहणं प्रयोजयति । अग्रआदिभिर्विना भुङ्क्ते भुङ्क्ते व्रजतीति कर्तृविवक्षया न वर्तमानादयोऽभिधानादिति वक्तव्यं स्यात् । एवं सत्यप्राप्ते विभाषेयमिति वृत्तावाभीक्ष्ण्येनोदाहृतम्।
ܕ
यद्येवमग्रेआदिभिः पूर्वकालस्योक्तत्वात् क्त्वाप्रत्ययो न विधातव्यः स्यात् पूर्वं भुङ्क्ते व्रजतीति ? सत्यम् । साधनपौर्वकाल्यमेतदिति भुजिव्रज्योः कर्तुर्भुजिव्रज्योरेव कर्त्रन्तरात् पूर्वकालता पूर्वं भुङ्क्तेऽन्येभ्यो भुजिभ्य इति विशेषणत्वमपि न हीयते कथं द्वितीयेति न देश्यम्। एवं सति वचनाण्णम् स्यान्न भुङ्क्ते इति देश्यं निरस्तम्। भाष्यकारमतमेतत्, सूत्रकारमतं तु उक्तानामपि स्वरूपानुवादकतया प्रयोगो दृश्यते । यथा अन्यथाभुङ्क्ते अन्यथाकारं भुङ्क्ते इति प्राप्तत्वाद् व्रजतीति साधनपौर्वकाल्ये क्रियापौर्वकाल्ये च विवक्ष्यते को विशेष इति विभाषाग्रहणं क्त्वार्थं न स्यात् ।। १२९१ । [वि०प०]
-
.
विभाषा ०। आभीक्ष्ण्य इति न स्मर्यतेऽनिष्टत्वात्, अतोऽप्राप्ते विभाषेयम्। कथम् अग्रे भुङ्क्ते व्रजतीति ? सत्यम्, क्त्वाणमौ भावे कर्तृत्वविवक्षायां च वर्तमानादय इति भिन्नार्थतया नैतौ तेषां बाधकाविति । आभीक्ष्ण्ये तु भुङ्क्ते भुङ्क्ते व्रजतीति नाभिधीयते। इहाग्रादीनां णमन्तेनोपपदसमासो नास्ति, अनभिधानात् ।। १२९१ ।