________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५३१
[वि०प०]
णम्। द्विरित्यादि। न ह्यन्यथा आभीक्ष्ण्यं लोके गम्यते इति। यद्यनाकाङ्क्ष इति न वक्तव्यम्। यच्छब्दप्रयोगे अनाकाङ्क्ष वाक्ये क्त्वाणमौ न भवतः इत्यस्यार्थस्य युक्तिसिद्धत्वादित्याह– यदयमित्यादि। यदप्युक्तम् अनाकाङ्क्ष इति किम्? यदयं भक्त्वा गच्छति ततोऽधीते इत्यत्र किल यदयं भक्त्वा गच्छतीत्यनेन वाक्येन ततोऽधीते इत्येतदपेक्ष्यते इत्यत्रापि भोजनगमनयोः क्रमस्यानुक्तत्वात् कथं क्त्वा न भवतीत्याहयदयं भुङ्क्ते इत्यादि ।।१२९०।
[क० त०]
णम्। चकारोऽत्राभीक्ष्ण्ये क्त्वार्थः, अन्यथा णम्-प्रत्ययो बाधक: स्यात्। अथ चकार: किमों वाशब्दः क्रियताम्, वक्ष्यमाणे च विभाषाग्रहणं न कृतं स्याद् वाधिकारात्। नैवम्, अनेन क्त्वाविधानेन पदस्य द्विरुक्तिः स्यादिति। लुनीहि लुनीहीतिवत् यल्लोकतो द्विवचनमिति, तत् कष्टमिति कश्चित्। आभीक्ष्ण्ये इति विषयसप्तमी। यत्राभीक्ष्ण्यं द्विवचनप्रतिपाद्यं तद्विषये णमिति, एतेनोक्तार्थत्वाद् द्विर्वचनं न स्याद् इति निरस्तम्। वृत्तौ क्त्वा न भवतीति पूर्वेणेति शेषः। आभीक्ष्ण्याभावाच्च णम् न स्यादिति क्रमस्याभिधानाच्चेति चार्थः।
यद् वा चकारो भिन्नक्रमे णम् च न स्यादिति। न केवलमनेन क्त्वा न स्यात् णम् चेति चार्थ:। यदयमित्यादिः अथात्र तत:शब्देन क्रमस्याभिधानमेव किं नोच्यते, कथं वा पुन:पुन:शब्देनैवाभीक्ष्ण्यस्याभिधानादित्युच्यते? सत्यम्, णमो विधानं तावदनभिहितक्रमेऽनभिहिताभीक्ष्ण्ये च, तत्र यदाऽनभिहितः क्रमोऽनभिहितमाभीक्ष्ण्यं च तदा भवति तत्राह- पुन:पुनरित्यादि। नन्वभिहिताभीक्ष्ण्ययोरुभयोः सत्त्वे णमो विधानं ततश्च तत:शब्देनैव क्रमस्याभिधानादेव न भविष्यति किं पुनःपन:शब्देनैवाभीक्ष्ण्याभिधानादित्यनेन? सत्यम्, एकस्यासत्त्वेऽपि सत्यन्यदाश्रित्य भवितुं पार्यते इति सिद्धान्तः समर्थयितव्यः। अन्यथा एकमित्यादौ कर्मप्रत्ययानुपपत्तिः स्यात्। तथाहि एकत्वविशिष्ट कर्मणि णम् विधीयते। तत्र च प्रकृत्या एकत्वस्योक्तार्थत्वात् कथं णम् स्यादिति कर्ममात्रमवलम्ब्यापि स्यादित्युच्यते चेत्, तथात्रापि पौन:पुन्ये यत्तत:शब्दाभ्यां क्रमस्योक्तत्वेऽपि यदा पुन:पुन:शब्दो नास्ति तदा यदयं भुक्त्वा भुक्त्वा ततो व्रजतीति स्यादेव नियामकाभावात्। अतः पुन:पुन:शब्देनाभीक्ष्ण्याभिधानादित्युच्यते। कश्चिद् आह- यत्तत:शब्दौ न क्रमस्याभिधायको। अत: पुन:पुन:शब्देनेति सिद्धान्तः प्रतीयते, अन्यथा व्यङ्गविकलं स्यादिति। तन्त्र, यच्छब्दप्रयोगे तत:शब्देन क्रमस्याभिधानादित्युक्तत्वात्।।१२९०।
[समीक्षा] _ 'भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में णम् (णमुल्) -क्त्वा प्रत्यय तथा पद को द्वित्वविधान किया गया है। पाणिनि का सूत्र है— “आभीक्ष्ण्ये ण्मुल च'' (अ०३।४।२२)। अत: पाणिनीय 'उल' अनुबन्धों के अतिरिक्त अन्य प्रकार को समानता है।