________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५३३
[क० त०]
विभाषा०। विभाषाशब्दोऽयमव्ययो विकल्पप्रतिपादकः। ननूपपदम् अग्रेप्रथमपूर्वविभाषास्वित्यकरणात्। क्त्वा नानुवर्तते चानुकृष्टत्वात्, अनुवर्तने चाग्रे भुक्त्वा अग्रे भुङ्क्ते व्रजतीत्याद्येव स्यात्, न तु अग्रेभोजं व्रजतीति, एतच्चैतत्सूत्रमन्तरेणापि सिद्धमिति पञ्ज्याम् अनिष्टत्वादिति। ननु सूत्रबलादेव नानुवर्तिष्यते, तत् किमेवमुच्यते? सत्यम, सूत्रसामर्थ्यात्रियम: स्यात, उपपदेष मध्ये-अप्रथमपूर्वेष्वेवेति न प्राक्प्रभृतिष्विति। आभीक्ष्ण्यनिवृत्तौ द्विश्च पदमित्यपि निवर्तते। अनभिधानादिति। ननु किमर्थमिदमुच्यते, अग्रे इति सप्तम्यन्तानुकरणादेव समासो न भविष्यति? सत्यम्, प्रथमपूर्वयोः समासस्याभिधानमवश्यमाश्रयणीयम्। तत् प्रस्तावेनोक्तम्।
[पाठान्तरम् – टीकायाम् आभीक्ष्ण्ये प्राप्ते इत्याभीक्ष्ण्यनिवृत्तौ सामान्येनाभीक्ष्ण्ये च तत्राभीक्ष्ण्ये प्राप्ते विभाषेत्यर्थः। एतच्च मतान्तरम् अग्रेभोजं व्रजतीत्युदाहरणमपि मतान्तरे बोध्यम्। अत्र कश्चिद् अप्राप्तिपक्षे सचकारमनुवर्त्य पक्षे वर्तमानामाह, अन्यथा णम्मात्रे विकल्पिते बाधकत्वात् क्त्वैव स्यात् न वर्तमाना, तेनाह अग्रे भुङ्क्ते अग्रेभोजमिति भवति, प्राप्तिपक्षे तु पूर्वेण क्त्वाणमौ सिद्धाविति पुनर्णम् विकल्पो वर्तमानार्थः, तेन अग्रे भुङ्क्ते व्रजतीति। तदसदित्याह- यदीति। तेन प्राप्तावेवायं विकल्पो वासरूपन्यायाभावात् तर्हि भुङ्क्ते भुङ्क्ते व्रजतीत्यपि स्यादित्याह--- अग्रआदिभिरिति। एवं सतीति। अभिधानाश्रयणे सतीत्यर्थः। एतच्च स्वमते बोध्यम् । यद्येवमिति। ___अयमभिप्राय:- अग्राद्यैः पूर्वकालस्योक्तत्वात् पूर्वेण सिध्यतीति भावः। णम् पुनर्विधानबलादेव स्यादिति। अतो विभाषाबलादक्तार्थेऽपि भवतीति केचिदाहः। तदसदिति भाष्यकारसम्मतम्। सिद्धान्तमाह- सत्यमिति। क्रियापौर्वकाल्यानुक्तत्त्वात् क्त्वाप्रत्यय इति हृदयम्। अथ साधनविशेषणत्वे कथं द्वितीयेत्याह क्रियाद्वारैव साधनविशेषणमिति भावः। तथाहि भोजनव्रजनापूर्वेण क्त्वा। अथ पूर्वशब्देन भोजनव्रजनापेक्षया न पूर्वमित्युच्यते- किन्त्वन्यापेक्षयेति देश्यम् भवतीति। अथ यदि साधारणपौर्वकाल्यमेवैतत् तदा क्रियापौर्वकाल्याभावात् क्त्वाप्रत्यये तु न स्यात्। यदि च क्रियापौर्वकाल्याभावात् क्त्वाप्रत्यये तु न स्यात्। यदि च क्रियापौर्वकाल्यमप्यस्ति तदा शपथं विना कप्रत्यये तु पूर्वादिशब्देन साधनपौर्वकाल्यमेवोक्तम्, न क्रियापौर्वकाल्यमिति। तस्मादुक्तार्थानामित्यादि सूत्रकारमतमेव साध्विति बोधयित्माहसूत्रकारमतं त्विति कोऽत्र विशेष इत्यनेन भाष्यमतमपास्तम्। न स्यादिति। णम्प्रत्यये बाधा न स्यादित्यर्थ: स्यादिति पाठे सुगमम् ।।१२९१।
[समीक्षा
'अग्रेभोजं व्रजति, अग्रे भुक्त्वा व्रजति' इत्यादि शब्दों के सिद्धयर्थ कातन्त्रकार न ‘णम्-क्त्वा' प्रत्यय तथा पाणिनि ने ‘णमुल्-क्त्वा' प्रत्यय किए हैं। पाणिनि का सूत्र है- “विभाषाग्रेप्रथमपूर्वेषु'' (अ० ३।४।२४)। अत: पाणिनीय ‘उ-ल्' अनुबन्धों को छोड़कर अन्य प्रकार की उभयत्र समानता ही है।