________________
१९
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [विशेष वचन] १. यस्य यदुक्तं तस्य तदेव, श्रुतत्वात् (दु० वृ०) । २. शकारः स्थितिमान् नास्तीत्यनुबन्धो गम्यते (वि० प०) । ३. अत्रापि वद्ग्रहणं सुखार्थम् (क०च०) । ४. परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेण वत्यर्थं गमयति (क० च०) । ५. औणादिकशब्दस्य बहुलार्थत्वात् (क० च०) । ६. पर्युदासार्थमिति तस्यापि निषेधस्यातिदेश आश्रीयते (क० च०) । [रूपसिद्धि]
१. जुह्वत् । हु + शन्तृङ् + सि । 'हु दाने' (२।६७) धातु से “वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः” (४।४।२) सूत्र द्वारा ‘शन्तृङ्' प्रत्यय, शकारऋकार-डकार के अनुबन्ध होने से 'अन्त्' भाग शेष, प्रकृत सूत्र से अतिदेश (सार्वधातुकवद्भाव), "अन् विकरण: कर्तरि" (३।२।३२) से अन् विकरण, “अदादेलुंग् विकरणस्य"(३।४।९२) से उसका लुक्, “जुहोत्यादीनां सार्वधातुके” (३।३।८) से 'हु' को द्वित्व, “ड़े न गुणः” (४।१।६) से अगुण, “जुहोते: सार्वधातुके" (३।४।६१) से उकार को वकार, नलोप, लिङ्गसंज्ञा, सि-प्रत्यय तथा "व्यञ्जनाद् दिस्योः" (३।६।४७) से उसका लोप।
२. पचमानः। पच् + आनश् + सि । 'डु पचष् पाके' (१।६०३) धातु से “वर्तमाने शन्तृङानशौ०” (४।४।२) सूत्र द्वारा 'आनश्' प्रत्यय, “अन् विकरण: कर्तरि” (३।२।३२) से अन् विकरण, “आन् मोऽन्त आने” (४।४।७) से मकारागम तथा विभक्तिकार्य ॥८६०।
८६१: डे न गुणः [४।१।६] [सूत्रार्थ)
ङकारानुबन्ध वाले कृत्संज्ञक प्रत्यय के परे रहते धातुसम्बन्धी गुण का निषेध होता है ॥८६१।
[दु० वृ०]
ङानुबन्धे कृति परे गुणो न भवति । बिभ्यत् , विदन् , सुन्वन् , चिन्वन् । कतीह मधु लिहानाश्चिन्वानाः ॥८६१।
[वि० प०]
डे० । बिभ्यदिति । 'जि भी भये' (२।६८), शन्तृङ्, पूर्ववद् द्विवचनम् “य इवर्ण०" (३।४।५८) नलोप: । सुन्वन् इति । "सुञो यज्ञसंयोगे" (४।४।१२) इति शन्तृङ् । "नुः ष्वादेः" (३।२।३४), "नोर्वकारो विकरणस्य" (३।४।६०) इति वत्वम्। मधु लिहानाश्चिन्वाना इति "शक्तिवयस्ताच्छील्ये" (४।४।९) इति शानङ् ।।८६१।