________________
१८
कातन्त्रव्याकरणम्
[दु० वृ० ]
शानुबन्धे कृति परे सार्वधातुक इव कार्यं भवति । जुह्वत्, पचमानः । ‘“कृञः श च'' (४।५।७७) क्रिया । यस्य यदुक्तं तस्य तदेव, श्रुतत्वात् ॥८६०।
[दु० टी०]
सार्व०
० । नहि शकारः स्थितिमानस्तीति कृतमन्तरेण शानुबन्धो नास्तीत्याह शानुबन्धे कृतीति । जुह्वदिति । जुहोत्यादित्वाद् द्विर्वचनम् । पचमान इति । “अन् विकरणः कर्तरि " ( ३।२।३२) इति । क्रियेति । " सार्वधातुके ग्ण्"
(३।२।३१) ||८६०|
[वि० प० ]
सार्व० । शकारः स्थितिमान् नास्तीत्यनुबन्धो गम्यते । स च कृतमन्तरेण न सम्भवतीत्याह - शानुबन्धे कृतीति । जुह्वदिति । 'हु दाने' (२।६७), शन्तृङ् । जुहोत्यादित्वाद् द्विर्वचनम् । “जुहोतेः सार्वधातुके" ( ३।४।६१) इति वत्वम् । पचमान इति । आनशि प्रत्यये अन्विकरणे “आन्मोऽन्त आने" ( ४ ४ ७) इति मकारः । क्रियेति । सार्वधातुके यण्, "यणाशिषोर्ये' (३|६| १३ ) इतीकारागमः ||८६०|
[क० च० ]
सार्व० । अत्रापि वद्ग्रहणं सुखार्थम् । परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेण वत्यर्थं गमयति, यतः शकारः स्थितिमान्नास्तीति । अथ सदृशम् इत्यत्र शकारः स्थितिमानस्तीति नैवम्, औणादिकशब्दस्य बहुलार्थत्वात् । 'प्रशान्' इत्यादौ कथम् आकारलोपो न स्यात्, वत्करणस्य स्वाश्रयार्थत्वाद् असार्वधातुकमस्ति । यतोऽसार्वधातुकेऽप्याकारलोपनिषेधो ऽप्यतिदिश्यते इति चेत्, न। पर्युदासेन सार्वधातुकादन्यस्मिन् प्रत्यये एवाकारलोपः साध्यो न तु सार्वधातुके निषेधः साध्यः, कुतस्तस्यातिदेशः ? सत्यम्, पर्युदासार्थमिति तस्यापि निषेधस्यातिदेश आश्रीयते । ननु पूर्वसूत्रान्नञ् कथं नानुवर्तते, तदायमर्थः स्यात् - शानुबन्धे परतः सार्वधातुके दृष्टं कार्यं गुणो वादेशादिकं न भवतीति ? सत्यम्। "ङे न गुण:'' (४।१।६) इत्यत्र नञ्ग्रहणात्। अन्यथा नञोऽधिकारोऽस्त्येव, किमत्र नञ्ग्रहणेन, तस्मान्नञो निवृत्तिः ॥८६०|
-
[समीक्षा]
,
'जुह्वत् पचमानः' आदि प्रयोगों के सिद्ध्यर्थं द्वित्व - मकारागम आदि कार्य करने पड़ते हैं । इनका निर्वाह दोनों व्याकरणों में किया गया है, परन्तु प्रक्रिया उभयत्र द्रष्टव्य है । पाणिनि ने शित् प्रत्ययों की सार्वधातुकसंज्ञा करके द्वित्वादि कार्य किए हैं, जबकि कातन्त्रकार ने प्रकृत अतिदेश से अपेक्षित कार्यों का निर्देश किया है। पाणिनि का सार्वधातुकसंज्ञाविधायक सूत्र है “तिशित् सार्वधातुकम्”
(अ० ३।४।११३) ।