________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५२९ वृत्तौ तस्मिन् वर्तमानादित्यनेन भावाभिधायकः क्त्वा पूर्वकालस्यापि द्योतक इति दर्शितम्। भुक्तवतीति। अथैवंविधे भिन्नकर्तृके यदि क्त्वा भवेत् तदा कालभावयो: सप्तमीत्यत्र भावग्रहणमनर्थकं स्यात्? सत्यम्। पूर्वकाल इति वचनाद् यत्र पूर्वकालोऽतीतस्तत्रैवास्य विषयो न वर्तमानादौ। अतो दुह्यमानास्वित्यादौ सप्तम्यूत्पद्यमाना भावग्रहणं प्रत्युज्जीवयिष्यतीति दुर्गादित्यः।
अन्य आह– भिन्नविषयत्वेन क्तवन्तबाधा न स्यात्, किन्त्वेवंविधेऽर्थे गरुणा भुक्त्वा शिष्यो व्रजतीति स्यादिति प्रतिपादितमिति। मुहूर्तादिति। मुहदिकालस्यावयवभूतस्य निमीलनस्य पूर्वत्वात् समुदायोऽपि पूर्वत्वोपचार इति भावः। यदा तु नैवं विवक्ष्यते तदा क्त्वापि न स्यात्। अक्षिणी निमीलयति हसति चेति स्वापस्यापि परावयवमपेक्ष्य व्यादानस्य पूर्वावयवस्य पूर्वतया क्त्वा इत्येषैव लौकिकी विवक्षेति त्रिलोचनहृदयम्। दु:खं भवतीति। यद्यपि दु:खं प्राप्नोतीति भवतेः प्राप्त्यर्थत्वाद् एककर्तृकता विद्यते तथापि सत्तार्थे दुष्यति। अत एव सुखं स्यादित्यपि दर्शितमिति कश्चित्। पञ्ज्यां पुरुष आत्मेत्यर्थः।
[पाठान्तरम्-टीकायां पूर्वादिति सिद्ध इति पूर्वार्थादित्यर्थः। तत्र चार्थे कार्यासम्भवाद् धातोरेव कार्यम्। अत एव धातुद्वयमध्ये पूर्वादिति नार्थः इति भाव:]।।१२८८।
[समीक्षा
'भुक्त्वा व्रजति,स्नात्वा पीत्वा व्रजति' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में ‘क्त्वा' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है“समानकर्तृकयोः पूर्वकाले'' (अ०३।४।२९)। अत: उभयत्र समानता है।
[रूपसिद्धि]
१-२. भुक्त्वा व्रजति। भुज्+क्त्वा+सि। भुक्त्वा पीत्वा व्रजति। भुजपा+क्त्वा+सि। 'भुज-पा' धातुओं से ‘क्त्वा' प्रत्यय, ज को ग्, ग् को क्, आ को ई, लिङ्गसंज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा सि-प्रत्यय का लुक्।।१२८८।
१२८९. परावरयोगे च [४।६।४] [सूत्रार्थ]
पर-दूरस्थ का अवर=समीपस्थ के साथ तथा समीपस्थ का दूरस्थ के साथ योग होने पर धातु से क्त्वा प्रत्यय होता है।।१२८९।
[दु० वृ०]
परस्यावरेण योगेऽवरस्य च परेण योगे सति धातो: क्त्वा भवति। अप्राप्य नदी पर्वतः। परनदीयोगेनावरदेशस्थः पर्वतो विशिष्यते। अतिक्रम्य पर्वतं नदी। अवरपर्वतयोगेन परदेशस्था नदी विशिष्यते। भवतेः सर्वत्र सम्भवाद् एककर्तृकता पूर्वकालता च दु:खप्रतिपत्तिगम्येति वचनम्।।१२८९।