________________
५२८
कातन्त्रव्याकरणम्
[वि०प०]
एक०। ननु शक्तिः कारकमुच्यते शक्तयश्च प्रतिधात्वर्थं भिन्ना एव। न हि या भोजनशक्तिः सैव गमनशक्तिरिति । कथं द्वयोर्धात्वर्थयोरेकः कर्तेत्याह — शक्तीत्यादि । तथाहि लोके य एव भुक्तवान् स एव देवदत्तो व्रजतीति व्यवहारो दृश्यते । 'सूत्रे लिङ्गं संख्या कालश्चातन्त्राणि' (का० परि० ६१) इत्याह- द्विवचनस्येति । तेन बहुष्वपि धात्वर्थेषु भवति। परापेक्षया वेति । पानापेक्षया भोजनं पूर्वम्, व्रजनापेक्षया च पानमिति। अतो द्वयोरपि धात्वर्थयोः पूर्वकाले क्त्वेति भावः । कथमिति । यदैवाक्षिणी निमीलयति तदैव हसतीति तुल्यकालत्वान्न प्राप्नोति तथा यदैव मुखं व्याददाति तदैव स्वपितीति। परिहारमाह-मुहूतेंति। ननु स्वापो हि निद्रालाभः उच्यते, स च मुखव्यादानात् पूर्व एव निद्रां लब्ध्वा मुखं व्याददातीति कथं व्यादानस्य पूर्वकालविवक्षेति ? सत्यम्। व्यादानकाले स्वापस्यानुवर्तनमस्तीति स्वापव्यादानयोरेककालत्वे सति व्यादानस्य लौकिकी पूर्वकालविवक्षाऽस्तीति न दुष्यति । कथमिति । दर्शनक्रियायाः पुरुषः कर्ता स हि तत् पश्यतीति। भवनक्रियायाश्च दुःखं कर्तृ, 'तद्धि भवति, उत्पद्यते' इति भिन्नकर्तृकता, एवमितरत्रापि । चिन्त्यमेतदिति । शास्त्रकारैरुदाहृतम्, तदस्माभिरिदं चिन्तनीयमालोचनीयम्। तत्रेदं चिन्त्यते दुःखस्योत्पादकः पुरुषः स हि मृतं पश्यन्नात्मनो दुःखमुत्पादयतीति विवक्षया एककर्तृकतेति भावः ॥ १२८८।
[क० त०]
एककर्तृ॰। एककर्तृकयोरिति निर्धारणे षष्ठी, पूर्वकालश्च निर्धार्यस्तस्मिन् वर्तमानादित्यत्र या वर्तमानक्रिया, तया पृथक् क्रियते । ननु भावलक्षणा सप्तमी कथं न स्यात्, एककर्तृकयोर्धात्वर्थयोः सतोः पूर्वकाले वर्तमानादित्यर्थः स्यात् नैवम्, द्वयोर्धात्वर्थयोः सत्त्वे स्याद् एकस्य सत्त्वेऽन्यस्याध्याहारे न स्यात् । न चैवं भवत्विति वाच्यम् 'मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा' इति रघुप्रयोगदर्शनाद् अत्रानाराध्येत्यस्मादनन्तरं स्थितस्येत्यध्याहारः । ननु पक्त्वा पचतीत्यादौ एकधात्वर्थे कथं स्यादिति चेत्, न। तण्डुलादिकारकभेदेन क्रियाभेदस्य स्वीकारात् । अथ विकल्पः कथं नानुवर्त । इति चेत्, न। "विभाषाग्रे० " ( ४।६।६ ) इत्यादिसूत्रे विभाषाग्रहणादुभयोर्विभाषयोर्मध्ये यो विधि: स नित्यः इति न्यायस्य लक्ष्यानुसारित्वान्नात्र विकल्पानुवृत्तिरिति । पूर्वस्मिंश्चानुवृत्तिरस्त्येव ।
अथ पूर्वकाले वर्तमानयोर्धात्वर्थयोर्वर्तमानाभ्यां धातुम्यां क्त्वेति न कथं सूत्रार्थः। अतो भुक्त्वा पीत्वा व्रजतीत्यादावेव न स्यात् । सूत्रे लिङ्गं संख्या कालश्चातन्त्राणीत्येकस्मादपि भवतीति फलशून्यमिदं देश्यम् । अथैककर्तृकत्वं किम् अद्वितीयकर्तृकत्वम् अभिन्नकर्तृकत्वं वा । तत्राद्यपक्षे देवदत्तयज्ञदत्तौ पक्त्वां व्रजेताम् इति न स्याद् अद्वितीयकत्वाभावात् तस्मादभिन्नकर्तृकत्वं समानकर्तृकत्वमिति न्याय्यम्।
1