________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५२७
[समीक्षा]
'अपमित्य, अपमाय याचते' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में क्त्वा प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है- “उदीचां माङो व्यतीहारे'' (अ० ३।४।१९)। अत: उभयत्र समानता ही है।
[रूपसिद्धि]
१-२. अपमाय। अप+मे+क्त्वा-यप्+सि। अपमित्य। अप- मेङ्+क्त्वा-यप् +सि। 'अप' उपसर्गपूर्वक 'मेङ् प्रतिदाने' (१।४६२) धातु से प्रकृत सूत्र द्वारा क्त्वा प्रत्यय, “समासे भाविन्यनञः क्त्वो यप्'' (४।६।५५) से 'यप्' आदेश, "आदातामाथामादेरि:' (३।६।६२) से आकार को इकार, तकारागम तथा विभक्तिकार्य।।१२८७।
१२८८. एककर्तृकयोः पूर्वकाले [४।६।३] [सूत्रार्थ
समान कर्ता वाले दो धात्वर्थों में से पूर्वकालवर्ती धात्वर्थ-वाचक धातु से क्त्वा प्रत्यय होता है।।१२८८।
[दु०वृ०]
एककर्तृकयोर्धात्वर्थयोर्मध्ये य: पूर्वक्रियाकालस्तस्मिन् वर्तमानाद् धातोः क्त्वा भवति। शक्तिशक्तिमतोरभेदविवक्षयैककर्तृकता। भुक्त्वा व्रजति। द्विवचनस्यातन्त्रत्वात् परापेक्षया वा-भक्त्वा पीत्वा व्रजति। एककर्तृकयोरिति किम्? भुक्तवति गरौ शिष्यो व्रजति। पूर्वकाल इति किम्? पचति च पठति च। कथम् अक्षिणी निमील्य हसति, मखं व्यादाय स्वपितीति? मुहूर्तादिकालस्य विवक्षितत्वात्। कथं मृतं दृष्ट्वा दु:खं भवति, प्रियं दृष्ट्वा सुखं स्यात्? भिन्नकर्तृकत्वाच्चिन्त्यमेतत्।।१२८८।
[दु० टी०]
एककर्तृ०। कथं पुनर्द्वयोः क्रिययोरेक: कर्तेत्याह-शक्तीत्यादि। तथाहि लोके य एव देवदत्तो भुक्तवान् स एव व्रजतीति व्यवहारः। परापेक्षया वेति। पानक्रियामपेक्ष्य भुजिक्रिया पूर्वेति कथमिति चोद्यम्। यदैवाक्षिणी निमीलयति तदैव हसतीति तुल्यकालत्वात्। मुहूर्तेत्यादि। तदपेक्षया पूर्वकालो मुहूर्त इत्यर्थः। यद्यपि निमीलनमक्ष्णोरेव सम्भवति, तथापि स्वरूपोक्तिलोंके दृश्यते। एककर्तृकयोः पूर्वादिति सिद्धे कालग्रहणं मन्दधियां सुखार्थम्। कथमित्यादि। दर्शनक्रियायाः पुषः कर्ता भवनक्रियाया दु:खमिति, एवं परत्रापि? सत्यम्। दुःखस्योत्पादकः पुरुषो दुःखमुद्भावयन् यथैककर्तृकता दृश्यते। चिन्त्यमेतदिति। शास्त्रकारैरुदाहतत्वादित्यर्थः। एककर्तृकयोरिति पूर्वकाल इति चाधिकारो वेदितव्यः।।१२८८।