SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५२६ कातन्त्रव्याकरणम् अपपूर्व इति। ननु व्यतीहागे वर्तनाम्, केन नाम सूत्रणास्मान् मिनातेः क्वति चंद अनभिज्ञोऽसि. मेधातोः केन सूत्रेण पूर्वकालविवक्षेति चेत्. मेवास्नु किमतिदूरगमनेनेति। नन्विति। अयं पूर्वपक्षस्तु सूत्रं यन्मते तन्मते भद्रं संगच्छते। अस्माकं तु मते पूर्वकालविवक्षया क्त्वाप्रत्ययविधानाद् भवतु वाऽभिधानादपूर्वकालेऽपि, तथापि सूत्रं न विद्यते। ___अनेनेति कस्य परामर्शः। स्वभावादयमित्यादि। ननु प्रतिदानमपि व्यतीहारम्नत: किं स्वभावोपन्यासेन? सत्यम्, परिवर्तनस्वरूपे व्यतीहारे वर्तते न क्रियासमच्चयादिव्यतीहार इति बोधयितमिति कश्चित्। धातूनामनेकार्थत्वादन्यत्र वृत्तिनिरासार्थमित्यन्यः। क्रमभाविदानग्रहणामेकव्यतीहारप्रवृनिं प्रति स्वभावोपन्यासः। अन्यथा मयते इत्युक्ते पिण्डीभूते एव परिवर्तः प्रतीयते, न गृहीत्वा इत्यादिवत् क्रमरूप इत्याह- पत्राङ्कुरः। तद् यथेत्यादि। व्याहारस्वरूपनिरूपणाज्ञानं ग्रहणं च लब्धं तत्रैकस्मिन् व्यतीहारे यथावयवगतपूर्वकालविवक्षायां तथात्रापि। अथ सैव विवक्षा कीदृशीति स्फटीकृत्य किन निगद्यते चेद् अवधीयताम्, याचनानन्तरं परिवर्तन वर्तमानेऽपि भूतभविष्यक्रियाक्षणोऽस्तीतिभूतपरिवर्तनस्य पूर्वकालतेति क्त्वाप्रत्ययस्य वर्तमानभविष्यत्परिवर्तने याच्चापि विद्यते इति वर्तमानेति सर्वमनवद्यम्। नन्वित्यादि। नन्वयं ग्रन्थः कथं संगच्छते सिद्धान्तस्योक्तत्वात्? सत्यम्, स एव सिद्धान्तो दूरीक्रियते। तथाहि ननु पूर्वकालविवक्षायां क्त्वाप्रत्ययः कृतः। परमते तु परकालविवक्षायां तत् कथमित्याह– नन्विति। अपमायस्येति। परिवर्तनस्येत्यर्थः। वक्तव्यमित्युक्तमिति वक्तव्यपदेनात्र "मङः' इति सूत्रमुक्तम्, परमतमवलम्ब्य पूर्वपक्षस्योक्तत्वात्। अभिधानादिति। अभिधानमेवेदृशं यत् पूर्वकालेऽपि क्त्वाप्रत्यय इति। कश्चिदभिधानादिति प्रतिपादनादर्थात् पूर्वकालस्येति। यथा अक्षिणी निर्माल्येत्यादौ तथात्रापीत्याह। न त् पूर्वकालविवक्षायां क्त्वाप्रत्यय इति पूर्वेणैवोक्तत्वादिति। केचित् नन्वित्यादि सिद्धान्तग्रन्थोऽयमित्याहुः। तत्तु त एव ध्यायन्ति न तु मादृशा इति स्थितम्। [पाठान्तरम् - टीकायामुक्तिबाधाया इति। उक्तिबाधा च भिन्नविषयेऽपि यथा “शिट्परोऽघोषः" (३।३।१०) इत्यादौ। अनेन मतेन मयतेरपूर्वकाले क्त्वा। एककर्तृकयोरित्यादिना न याचते: पूर्वकाले इति भिन्नविषयता वक्तव्यति। वक्तव्यस्वरूपं सूत्रं यन्मते तन्मते इत्यर्थः। संग्रह इति। अपमायस्य पूर्वकालविवक्षायामिति मते स्वमते इति यावत्। परकालतैवेति याच्ञाया इति शेषः। केचित्तु संग्रहपक्षेऽभिधानाश्रयणमन्तरेण सूत्रकरणपक्षे परकालतैवापमायस्य न स्यादिति वदन्ति। तदा याचनस्य पूर्वकालतायां याचेरपि क्त्वाप्रत्यय: स्यादिति]।।१२८७।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy