________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
पूर्वकालविवक्षायां क्त्वाप्रत्ययस्तथात्रापीत्यर्थः । ननु व्यतीहारेऽपि यदापमायस्य पूर्वकालता, तदात्र क्त्वा सिद्ध एवेति नायमस्य विषयः, यदा तु न तस्य पूर्वकालता, किन्तर्हि याच्ञाया एव तदा कथं मेङः क्त्वाप्रत्ययोऽपूर्वकालार्थमेव हि वक्तव्यमित्युक्तम्? सत्यम् । एवं सति मेङोऽपूर्वकालेऽभिधानात् क्त्वेति वक्तव्यं भवतीत्यदोषः।। १२८७। [क०त०]
मेङः। ननु पूर्वसूत्रात् कथम् अलंखलुशब्दौ नानुवर्तेते इति चेत्, न, पूर्वेणैव सिद्धत्वात्। न च मकारादीनां मध्ये मेङ एवेति नियमार्थं वाच्यम्, विधिनियमसम्भवे विधिरेव ज्यायान्, अलंखलुशब्दयोरनुवृत्तौ च नियमः, विधिस्तु अन्यथा तत् कथम् अनुवृत्तिः स्यादिति। अथ प्रतिषेधार्थव्यतिरेकेणालंखल्वोरिति केवलमनुवर्ततामिति चेत्, ना विशेष्यानुवर्तने विशेषणानुवर्तनस्य युक्तत्वात् । यथा देवदत्तादेरानयनेऽलंकारविशिष्टस्यानयनम्। न च वचनबलादेव केवलयोरलंखल्वोरनुवृत्तिः कथन्न स्यादिति वाच्यम्, अनुवर्तनेऽपि वचनस्य चरितार्थत्वात् । अपपूर्व एव मेङ् मिनोतिश्च प्रतिदान इति अपपूर्वस्योदाहरणमिति बोध्यम् । वृत्तावपूर्वकालार्थमिति सूत्रमिदं केनचित् कृतमित्यर्थः, न तु वाररुचिकम् । किन्तु तदेव प्रस्तावाद् वक्तव्यरूपेण दुर्गसिंहेन लिखितम् 'तादर्थ्ये' - वदिति लोकप्रसिद्धिः ।
५२५
नन्वेकर्तृकयोरित्यादिना कृते नित्यं स्यात्, अनेन तु विकल्पेन स्यात् । तत् कथमपूर्वकालार्थमेवेत्युक्तम् ? सत्यम्, अपूर्वकालार्थमित्यनेनैककर्तृकयोरित्यस्याविषय इत्येव प्रतिपादितम्। ततश्च कुतो विकल्पविचारावसरः । वक्तव्यमिति भिन्नोऽयं ग्रन्थः । अन्यथा वक्तव्यमिति व्याख्येयमिति टीकाकारवचनासङ्गतिः स्यात् । सूत्रेऽङ्गीकृते सति सूत्रादेवाभिधानाद् यपीत्त्वं नेष्यते इति मिनोते रूपमिदम् । इत्त्वमत्र स्वाभाविकम् इति नेष्यत इति मीनातीत्यादिना नाकार इत्यर्थः । एतावांस्तु भेदः परमते मेङोऽसिद्धस्य इकारस्य विधानमिह पुनः सिद्धस्येकारस्य मीनात्यादिना आकारो न क्रियते इति । अन्य आह— परैरित्त्वं पक्षे मेङो यपि क्रियते । नेष्यते इति । तन्न क्रियते इत्यर्थो धात्वन्तरेणैव सिद्धत्वात्। आकाराभावश्च व्यवस्थितवाग्रहणादिति । ' याचित्वा अपमयते' इत्यनेन वर्तमानेनापि भवतीति प्रतिपादितम्। पञ्ज्यां तथा हीति ।
ननु याचते इति कुतो लब्धम्, नहि मेङो धातोरेवायमर्थः ? सत्यम्, परिवर्तनस्य याचनपूर्वकत्वात्। याचनं चात्र प्रार्थनारूपम् । यथा 'मया सह परिवर्तनं कुरु' इति । एतादृशप्रार्थनव्यतिरेकेण परिवर्तनस्याभावात्, न तु याच्ञारूपम्, तस्यानावश्यकत्वात्। एककर्तृकतेति । ननु भिन्नकर्तृकतापि दृश्यते । यथा देवदत्तसम्बन्धि पंरिवर्तनम्, यज्ञदत्तो याचते इति ? सत्यम्, सिंहावलोकनन्यायादेककर्तृकान्मेङ इह बोध्यम्। स्वमतमाह— अत्रेति । अतो व्याख्यानं कर्तव्यम्, न तु सूत्रं कर्तव्यमित्यर्थः ।