________________
५२४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१.२. अलं कृत्वा। अलम्- कृ+क्त्वा-सि। खलु कृत्वा। खलु-कृ-क्ल्वा-मि। 'अलम् -खलु' शब्दों के उपपद में रहने पर 'डु कृञ् करणे' (७७) धातु से 'क्त्वा' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, लिङ्गसञ्ज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा 'सि' प्रत्यय का लुक्।।१२८६।
१२८७. मेङः [४।६।२]] [सूत्रार्थ] 'मेङ् प्रतिदाने' (१।४६२) धातु से ‘क्त्वा' प्रत्यय विकल्प से होता है।। १२८७। [दु०वृ०]
मयतेः क्त्वा वा भवति। अपूर्वकालार्थं वक्तव्यम्। अपमाय, अपमित्य याचते। यपीत्वं नेष्यते। न याचे: क्त्वा, अनभिधानाच्च। अपमातुं याचते। याचित्वा अपमयते इति वक्तव्यम्।।१२८७।
[दु० टी०]
मेङः। इह यद्यपि परमार्थतोऽनुबन्धा न सन्ति कार्यार्थं भाव्यन्ते, तथाप्यात्वं सन्ध्यक्षरान्तलक्षणं न कृतम्। 'माङ् माने' (२।२६) इत्यपि सम्भाव्यत। 'मेङ प्रतिदाने' (१।४६२) इति स्वभावादयं व्यतोहारे वर्तते। वक्तव्यं व्याख्येयम्। माषान् गृहीत्वा तिलान् ददातीतिवत् पूर्वकालस्य विवक्षास्तीति सिद्धम्। 'अपमाय याचते' इति अपपूर्वमिनोतिरपि व्यतीहारे वर्तते अपमित्य याचते। न याचेरित्यादि। याचते: पूर्वकाले क्त्वाप्रत्ययो नास्ति उक्तिबाधायाः सामर्थ्यलब्धत्वात् पूर्वकालस्यानभिधानाच्चेति चकारेण सूच्यते वक्तव्यपक्षे, संग्रहपक्षे परकालतेव।।१२८७।
[वि०प०]
मेङः। अथ किमर्थमिदम् “एककर्तृकयोः पूर्वकाले' (४।६।३) इत्यादिना सिध्यत्येव? तथाहि य एवापमयते स एव याचते इत्येककर्तृकतास्तीत्याहअपूर्वकालार्थमिति। पूर्वमसौ याचते। पश्चादपमयते इति नास्ति पूर्वकालत्वम् अतो वक्तव्यमिति भावः। अपमायेति। मीनातीत्यादिना आकारः। अपमित्येति। अपपूर्वो मिनोतिरपि व्यतीहारे वर्तते। अत्र पक्षे मेडो यपीत्त्वं न वक्तव्यमित्याह- यपीत्त्वं नेष्यते इति। ननु यदैवापमयतेरनेन क्त्वाप्रत्ययस्तदैव वक्ष्यमाणेन पूर्वकाले याचते: कथन स्यादित्याह- याचेः क्त्वेति। परकाले हि मयतेः क्त्वाप्रत्ययः परकालमन्तरेण पूर्वकालो न लभ्यते इत्यनभिधानाच्चेति चकारेण सूच्यते। अपूर्वकाल एवायं क्त्वेति शब्दान्तरेणार्थं कथयन्त्रभिधानाद् यथाप्राप्तमपि प्रत्ययविकल्पं दर्शयितुमाहअपमातुमित्यादि। वक्तव्यं व्याख्येयम्, तत्रैषा व्याख्या- 'मेङ् प्रतिदाने' (१।४६२)। स्वभावादयं व्यतीहारे वर्तते। तद् यथा तिलान् गृहं चा माषान् ददातीति व्यतीहारे